Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 536 // ७शतके उद्देशक:९ असंवृतानगाराधिकारः। सूत्रम् 300 कण्टक संग्रामे जयपराजय प्रश्नाः / त्ति मङ्गलो माङ्गल्यो जयशब्दः कृतो जनैर्विहित आलोके दर्शने यस्य स तथा, एवं जहा उववाइए जावे त्यनेनेदं सूचितम्, अणेग(ग)णनायग-दंडनायग-राईसर-तलवर-माडंबिय-कोडुंबिय-मंति-महामंति-गणग-दोवारिय अमच्च-चेड-पीढमद्दणगरनिगमसेट्ठि-सेणावइ-सत्थवाह-दूय-संधिपाल सद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ म० पडित्ता जे० बाहिरिया उवट्ठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवाग. त्ति तत्रानेके ये गणनायकाः, प्रकृतिमहत्तराः, दण्डनायकाः तन्त्रपालाः, राजानो माण्डलिकाः, ईश्वरा युवराजाः, तलवराः, परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः, माडम्बिकाः छिन्नमडम्बाधिपाः, कौटुम्बिकाः कतिपयकुटुम्बप्रभवोऽवलगकाः, मन्त्रिणः प्रतीताः, महामन्त्रिणो मन्त्रिमण्डलप्रधानाः, गणकाः ज्योतिषिका भाण्डागारिका इत्यन्ये, दौवारिकाः प्रतीहाराः, अमात्या राज्याधिष्ठायकाः, चेटाः पादमूलिकाः, पीठमा आस्थाने आसनासीनसेवका वयस्या इत्यर्थः, नगरमिह सैन्यनिवासिप्रकृतयः, निगमाः कारणिका वणिजो, श्रेष्ठिनः श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः प्रतीताः, दूता अन्येषां राजादेशनिवेदकाः, सन्धिपालाः राज्यसन्धिरक्षकाः, एतेषांद्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, सद्धिं ति सार्द्धसहेत्यर्थः, न केवलंतत्सहितत्वमेवापि तु तैः समितिसमन्तात् परिवृत्तः परिकरित इति, हारोत्थयसुकयरइयवच्छे हाराऽवस्तृतेन हाराऽवच्छादनेन सुष्टु कृतरतिकम्, वक्ष उरो यस्य स तथा, जहा चेव उववाइए त्ति तत्र चैवमिदं सूत्रं पालंबपलंबमाण-पड-सुकयउत्तरिज इत्यादि तत्र प्रालम्बेन दीर्घेण प्रलम्बमानेन झुम्बमानेन पटेन सुष्टु कृतमुत्तरीयमुत्तरासङ्गो येन स तथा, महया-भडचडगरवंदपरिक्खित्ते त्ति महाभटानां विस्तारवत्सङ्ग्रेन परिकरित इत्यर्थः, ओयाए त्ति, उपयात उपागतः, अभेज्जकवयं ति परप्रहरणाभेद्याऽऽवरणम्, वइरपडिरूवगं तदभिधानकारणजनसंहारादि प्रश्नाः / // 536 //
Loading... Page Navigation 1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578