Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 534 // नगाराधिकारः। सूत्रम् 300 कण्टक संग्रामे जयपराजय प्रश्ना : / निवेदयतेत्यर्थः, हट्ठतुढे ह यावत्करणादेवं दृश्यं हट्टतुट्ठचित्तमाणंदिया नंदिया पीइमणे त्यादि, तत्र हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा 7 शतके विस्मितंतुष्टंच तोषवच्चित्तं मनो यत्र तत्तथा तद्धृष्टतुष्टचित्तं यथा भवतीत्येवमानन्दिता ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः,8 उद्देशकः९ असंवृताततश्च नन्दिताः समृद्धितरतामुपगताः, प्रीतिः प्रीणनमाप्यायनं मनसि येषां ते प्रीतिमनसः, अंजलिं कट्टत्ति, इदं त्वेवं दृश्य करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु तत्र शिरसाप्राप्तमसंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः, एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणेति त्ति, एवं स्वामिन्! तथेति आज्ञयेत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि प्रतिशृणवन्त्यभ्युपगच्छन्ति, छेयायरिओवएसमइकप्पणाविगप्पेहिं ति छेको निपुणो य आचार्यः शिल्पोपदेशदाता तस्योपदेशाद्यामतिर्बुद्धिस्तस्या ये कल्पनाविकल्पाः कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः, सुनिउणेहिं ति कल्पना तदभिधानविकल्पानां विशेषणं नरैर्वा सुनिपुणैः, एवं जहा उववाइए त्ति तत्र चेदं सूत्रमेवम्, उज्जलनेवत्थ-हव्वपरिवच्छिय मुज्वलनेपथ्येन निर्मलवेषेण हव्वं तिशीघ्रंपरिपक्षितः परिगृहीतः परिवृतोयःस तथा तम्, सुसज्जंचम्मियसन्नद्ध-बद्धकवइय-उप्पीलियवच्छकच्छ |संहारादि गेवेज्जगबद्धगलग-वरभूसणविराइयं चर्मणि नियुक्ताश्चार्मिकास्तैः सन्नद्धः कृतसन्नाहश्चार्मिकसंनद्धः, बद्धा कवचिका सन्नाहविशेषो यस्य स बद्धकवचिकः, उत्पीडिता गाढीकृता वक्षसि कक्षा हृदयरज्जुर्यस्य स तथा, ग्रैवेयकं बद्धंगलके यस्य स तथा, वरभूषणैर्विराजितो यः स तथा, ततः कर्मधारयोऽस्तम्, अहियतेयजुत्तं विरइयवरकण्णपूर-सललियपलंबावचूलचामरोयरकयंधयारं विरचिते वरकर्णपूरे प्रधानकर्णाभरण विशेषो यस्य स तथा, सललितानि प्रलम्बान्यवचूलानि यस्य स तथा, चामरोत्करेण कृतमन्धकारं यत्र स तथा, ततः कर्मधारयोऽतस्तम्, चित्तपरिच्छोयपच्छयं चित्तपरिच्छोको लघुः प्रच्छदो वस्त्रविशेषो यस्य स तथातस्तम्, कणगघडियसुत्तगसुबद्धकच्छं कनकघटितसूत्रकेण सुष्टु बद्धा कक्षा, उरोबन्धनं यस्य कारणजन प्रश्नाः / 534 //
Loading... Page Navigation 1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578