Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 533 // नगारा सूत्रम् 300 कण्टक जयपराजय प्रश्राः / तदभिधान सङ्गामायाहूताः, तत्रैकैकस्य त्रीणि 2 हस्तिनां सहस्राणि , एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिम्रः 2 कोटयः, 7 शतके उद्देशकः९ कूणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषांचेटकस्य च प्रत्येकमेवमेव हस्त्यादि-8 असंवृतापरिमाणम्, ततो युद्धं संप्रलग्नम्, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्य एकमेव शरं मुञ्चति, अमोघबाणश्च सः, तत्र च धिकारः। कूणिकसैन्ये गरुडव्यूहः, (ग्रन्थाग्रं 7000) चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्ध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो भग्नं च कूणिकबलम्, गते च द्वे अपि बले निजं संग्रामे निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापिकालादयः, एकादशे तु दिवसे चेटकजयार्थं देवता राधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाण, चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौतद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तुद्वौसङ्ग्रामौ विकुर्वितवान् महाशिलाकण्टकं रथमुशलं चेति ॥जइत्थ त्ति जितवान्, पराजइत्थ त्ति पराजितवान् हारितवानित्यर्थः, वज्जित्ति वज्रीन्द्रः, विदेहपुत्ते त्ति कोणिकः, एतावेव तत्र जेतारौ नान्यः कश्चिदिति, नव मल्लइ त्ति मल्लकिनामानो राजविशेषाः, नव लेच्छइत्ति लेच्छकिनामानो राजविशेषा एव, कासीकोसलग त्ति काशी वाणारसी तज्जनपदोऽपिकाशी तत्सम्बन्धिन आद्या नव, कोशलाऽयोध्या तज्जनपदोऽपि कोशला तत्सम्बंधिनो नव द्वितीयाः, गणरायाणो त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानीं चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति // अथ महाशिलाकण्टके सङ्गामेचमरेण विकुर्वितेसति कूणिको यदकरोत्तद्दर्शनार्थमिदमाह तएण मित्यादि, ततो महाशिलाकण्टक सङ्गामविकुर्खणानन्तरमुदायिनामानं हत्थिरायं ति हस्तिप्रधानम्, पडिकप्पेह त्ति सन्नद्धं कुरुत, पञ्चप्पिणह त्ति प्रत्यर्पयत कारणजनसंहारादि प्रश्नाः /
Loading... Page Navigation 1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578