Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 525 // ७शतके उद्देशक: 7 अनगाराधिकारः। सूत्रम् 292 पृथिव्यादिसंज्यसंज्ञीनामप्रकामवेदनावेदनादि प्रश्ना : / जेणं नो पभू देवलोगं गमित्तए जे णं नो पभू देवलोगगयाई रू० पा० एस णं गोयमा! पभूवि पकामनि० वे वेदेति / सेवं भंते! 2! त्ति // सूत्रम् 292 ॥सत्तमस्स सत्तमो उद्देसओ समत्तो॥७-७॥ 22 जे इम इत्यादि, एगइया तस त्ति, एके केचन न सर्वे संमूर्छिमा इत्यर्थः, अंध त्ति, अंध इवान्धा अज्ञानाः, मूढ त्ति मूढाः तत्त्वश्रद्धानं प्रति, एत एवोपमयोच्यन्ते तमंपविट्ठ त्ति तमः प्रविष्टा इव तमः प्रविष्टाः, तमपडलमोहजालपडिच्छन्न त्ति तमः पटलमिव तमः पटलं ज्ञानावरणम्, मोहो मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना आच्छादिता येते, तथाऽकामनिकरणं ति, अकामो वेदनानुभावेऽनिच्छाऽमनस्कत्वात्स एव निकरणं कारणं यत्र तदकामनिकरणमज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं वेदना सुखदुःखरूपां वेदनं वा संवेदनं वेदयन्त्यनुभवन्तीति // 23 अथासज्ञिविपक्षमाश्रित्याह, अत्थी त्यादि, अस्त्ययं पक्षो यदुत पभूवि त्ति प्रभुरपि सज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽप्यास्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः, 24 अकामनिकरणमनिच्छाप्रत्ययमनाभोगात्, अन्ये त्वाहुः, अकामेनानिच्छया निकरणं क्रियाया इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनांवेदयन्तीति प्रश्नः, उत्तरंतु जेणं ति यःप्राणी सज्ञित्वेनोपायसद्भावेन च हेयादीनांहानादौ समर्थोऽपि,नो पहुत्तिनसमर्थो विना प्रदीपेनान्धकारेरूपाणि पासित्तएत्ति द्रष्टम्, एषोऽकामप्रत्ययं 8 वेदनांवेदयतीति सम्बन्धः, पुरओत्ति, अग्रतः, अणिज्झाएत्ताणंति, अनिद्ध्याय चक्षुरव्यापार्य, मग्गओत्ति पृष्ठतः, अणवयक्खित्ता णं ति, अनवेक्ष्य पश्चाद्भागमनवलोक्यति // 25 अकामनिकरणं वेदनांवेदयतीत्युक्तम्, अथ तद्विपर्ययमाह, अत्थिण मित्यादि, प्रभुरपि सज्ञित्वेन रूपदर्शनसमर्थोऽपि 26 पकामनिकरणं ति प्रकाम ईप्सितार्थाप्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः स एव निकरणं कारणं यत्र वेदने तत्तथा, अन्ये त्वाहः, प्रकामे तीव्राभिलाषेसति प्रकामं वाऽत्यर्थ निकरणमिष्टार्थसाधकक्रिया // 525 //
Loading... Page Navigation 1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578