Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 519 // च छविः,शरीरत्वग्येषांते तथा, अत एव चित्तलंग त्ति कर्बुरावयवाः, टोले त्यादि,टोलगतय उष्ट्रादिसमप्रचाराः, पाठान्तरेण टोलाऽऽकृतय अप्रशस्ताऽऽकाराः, विषमाणि ह्रस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः, उत्कुटुकानि यथास्थानमनिविष्टान्यस्थिकानि कीकसानि विभक्तानीव च दृश्यमानान्तरालानीव येषांत उत्कुटुकास्थिकविभक्ताः, अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च भोजन विशेषरहिता येते तथा, दुर्बला बलहीनाः, कुसंहननाः सेवार्तसंहननाः, कुप्रमाणाः प्रमाणहीनाः, कुसंस्थिताः दुःसंस्थानाः, तत एषां टोलगे त्यादिपदानां कर्मधारयः, अत एव कुरूव त्ति कुरूपाः, कुट्ठाणासणकुसेज्जकुभोइणो त्ति कुत्सिताऽऽश्रयविष्टरदुःशयन दुर्भोजनाः, असुइणो त्ति, अशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयोवा शास्त्रवर्जिताः,खलंतविज्झलगइत्ति खलन्ती-स्खलन्ती विह्वलाच, अर्दवित गतिर्येषां ते तथा, अनेकव्याधिरोगपीडितत्वात्, विगयचेट्ठानद्वतेय त्ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः, सीए त्यादि शीतेनोष्णेन खरपरुषवातेन च, विज्झडिय त्ति मिश्रितं व्याप्तमित्यर्थः, मलिनंच पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः, उगुडिय त्ति, उद्धूलितं चाङ्गं 2 येषां ते तथा, असुहदुक्खभागि त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः, ओसण्णं ति बाहुल्येन, धम्मसण्ण त्ति धर्मश्रद्धावसन्ना गलिता सम्यक्त्वभ्रष्टाः, रयणिपमाणमेत्त त्ति रत्नेः, हस्तस्य यत्प्रमाणमङ्गलचतुर्विंशतिलक्षणं तेन मात्रा परिमाणं येषां ते रलिप्रमाणमात्राः, सोलसवीसइवासपरमाउसो त्ति, इह कदाचित् षोडश वर्षाणि कदाचिच्च विंशतिर्वर्षाणि परमायुर्येषां ते तथा, पुत्तनत्तुपरियालपणयबहुल त्ति पुत्राः सुताः, नप्तारः पौत्रा दौहित्राश्चैतल्लक्षणो यः परिवारस्तत्र यः प्रणयः स्नेहः स बहुलो बहुर्येषां ते तथा, पाठान्तरे पुत्तनत्तुपरिपालणबहुल त्ति तत्र च पुत्रादीनां परिपालनंबहुलं बाहुल्येन येषांते तथा, अनेनाल्पायुष्कत्वेऽपि बह्वपत्यता तेषामुक्ताल्पेनापिकालेन यौवनसद्धावादिति, निस्साए त्ति निश्राय निश्रांकृत्वेत्यर्थः, निओय त्ति निगोदाः 7 शतके उद्देशक: 6 आयुष्काधिकारः। सूत्रम् 288 टोलगतिकुप्रमाणव्याधिरोगपीडितनष्टतेजषोडशविंशतिरायुष। बहुपुत्रादिपालनादि मनुष्याः / . // 519 //
Loading... Page Navigation 1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578