Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 493 // वचनान्तं वा व्याख्येयम् / अवड्डोमोयरिय ति, अवमस्योनस्योदरस्य करणमवमोदरिका, अपकृष्टं किञ्चिदूनमर्द्ध यस्यांसाऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात्, अपार्द्धाचासाववमोदरिका चेतिसमासः, साभवतीत्येवंसप्तम्यन्तव्याख्यानं नेयम्, प्रथमान्तव्याख्यानं तु धर्मधर्मिणोरभेदादपार्द्धावमौदरिकः साधुर्भवतीत्येवं नेतव्यम्, दुभागप्पत्ते त्ति द्विभागोऽर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यम्, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम्, ओमोयरिय त्ति, अवमोदरिका भवति धर्मधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यम्, पकामरसभोइ त्ति प्रकाममत्यर्थं रसानां मधुरादिभेदानां भोगी भोक्ता प्रकामरसभोगीति // 269 // 22 अह भंते! सत्थातीयस्स सत्थपरिणामियस्स एसि वेसि समुदाणि पाणभोयणस्स के अटे प०?, गोयमा! जेणं निग्गंथे वा 2 निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयचुयचइयचत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहूयमकीयकडमणुद्दिट्टनवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणेसणासुपरिसुद्धंवीतिंगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्ठयाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारेति एस णं गोयमा! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमढे प० / सेवं भंते! रत्ति // सूत्रम् 270 // सत्तमसए पढमो उद्देसो समत्तो॥७-१॥ 22 सत्थातीतस्स त्ति शस्त्रादग्न्यादेरतीतमुत्तीर्णं शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह सत्थपरिणामियस्स त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम्, एसियस्सत्ति, एषणीयस्य गवेषणाविशुद्ध्या वा गवेषितस्य, वेसियस्सत्ति विशेषेण विविधैर्वा प्रकारैरेषितं व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य, अथवा 7 शतके उद्देशकः१ आहारकानाहारकवक्तव्यताऽऽधिकारः। सूत्रम् 270 शस्त्रातीतपरिणामितैषितव्येषिता कृतादिनवकोटिशुद्धोद्मादिशुद्धादि भिक्षास्वरूपम् प्रश्नाः /
Loading... Page Navigation 1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578