Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यई श्रीअभय. वृत्तियुतम् भाग-१ // 495 // दोषाः शङ्कितम्रक्षितादयः (पिण्डनि० गा० 520), उग्गमुपायणेसणासुपरिसुद्धं ति, उद्गमश्चाधाकर्मादिः षोडशविध (पिण्डनि गा०९२-३) उत्पादनाच धात्रीदूत्यादिका षोडशविधै (पिण्डनि० गा० ४०८-९)वोद्गमोत्पादने एतद्विषया यैषणा पिण्डविशुद्धिस्तया सुष्टु परिशुद्धोयः स उद्गमोत्पादनैषणासुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति, प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता, असुरसुरं ति, अनुकरणशब्दोऽयम् एवमचवचवमित्यपि, अदुयं ति, अशीघ्रम्, अविलंबियं ति नातिमन्थरम्, अपरिसाडिं ति, अनवयवोज्झनम्, अक्खोवंजणवणाणुलेवणभूयं ति, अक्षोपाञ्जनं च शकटधूम्रक्षणं व्रणानुलेपनं च क्षतस्यौषधेन विलेपनम्, अक्षोपाञ्जनवणानुलेपने ते इव विवक्षितार्थसिद्धिरशनादिनिरभिष्वङ्गतासाधाद्यः सोऽक्षोपाञ्जनवणानुलेपनभूतोऽतस्तम्, क्रियाविशेषणं वा, संजमजायामायावत्तियं ति संयमयात्रा संयमानुपालनं सैव मात्राऽऽलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः प्रवृत्तिर्यत्राऽऽहारेस संयमयात्रामात्रा वृत्तिकोऽतस्तं संयमयात्रामात्रावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह संयमभारवहणट्ठयाए त्ति संयम एव भारस्तस्य वहनं पालनं स एवार्थः संयमभारवहनार्थस्तद्धावस्तत्ता तस्यै, बिलमिव पन्नगभूएणं अप्पाणेणं ति बिल इव, रन्ध्र इव पन्नगभूतेन सर्पकल्पेनात्मना करणभूतेनाऽऽहारमुक्तविशेषणम्, आहारयति शरीरकोष्ठके प्रक्षिपति, यथा किल बिले सर्प आत्मानं प्रवेशयति पार्धानसंस्पृशन्नेवं साधुर्वदनकन्दरपानसंस्पृशन्नाहारेण तदसञ्चारणतो जठरबिले आहारं प्रवेशयतीति, एस णं त्ति, एषोऽअनन्तरोक्तविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य, अर्थः अभिधेयः प्रज्ञप्त इति // 270 // 7 शतके उद्देशकः१ आहारकानाहारकवक्तव्यता|ऽऽधिकारः। सूत्रम् 270 शस्त्रातीतपरिणामितै|षितव्येषिता कृतादिनवकोटिशुद्धोद्मादिशुद्धादि | भिक्षास्वरूपम् प्रश्नाः / 8 // 495 //
Loading... Page Navigation 1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578