Book Title: Vardhaman Deshna Part 02 Author(s): Jain Dharma Prasarak Sabha Bhavnagar Publisher: Jain Dharm Prasarak Sabha View full book textPage 5
________________ F****97************+******+++ Jain Education International किंतु शुभतरध्यानात्प्राप्तावविज्ञानेन तेन रेवत्या हितकरमप्यप्रियं नरकपृथ्वीगमनरूपं वचनमुक्तं, ततो वर्धमानस्वाम्याश्या गौतमस्वामिनाऽऽगत्य तदप्रियवचनस्यालोचनार्थं कथितः स तथैवालोचयदित्यादि । ( प्रथम श्रावकस्यानन्दस्याप्यवधिज्ञानमुत्पन्नमासीत्, स च स्वसातपृच्छनायागतस्य गौतमस्वामिनो वन्दनापूर्वकं स्वावधिज्ञानमर्यादां कथितवान् ततो जातशङ्केन गौतमस्वामिना सक्षामित इत्यवधिज्ञानवन्तौ द्वावेवैतौ इति प्रासङ्गिकम् ) नवमोलासे नन्दिनीप्रियचरिते भगवता धर्मदेशनायामहिं साधर्मोपरि भीमकुमारदृष्टान्तः कथितः । तेन भीमेनाहिंसाधर्मप्रभावात् किमुत योगी महाकाली देवीप्रमुखा अपि दयाधर्मं प्रापिता इत्येतत्कथानकं वाचनीयमस्ति | दशमोल्लासे तेतलिपितुश्चरिते ज्ञानधर्मोपरि सागरचन्द्रकथा कथिता । तत्र धर्मस्वरूपं सम्यक्त्वादि सम्यक् प्ररूपितं, ज्ञानस्य च प्राधान्यं प्रपचितं, स्थाने स्थाने च धर्मोपदेशः कथितोऽस्ति । पर्यन्ते च प्रशस्तौ–दशाऽप्येत आनन्दादयः श्रावका दृढसम्यक्त्वाः, सुरासुरनरतिर्यक्कृत - घोरोपसर्गैरप्यनुब्धाः, (देवोपसर्गितोऽपि कामदेवोऽचत्रितो भगवता समवसरणस्थमुनिजन स्थिरीकरणार्थं प्रशंसितः । देबोपसर्गिता चुलनीपितृ - सुरादेर्ते- चुलशतैक-सद्दालपुत्रायुता अपि स्वस्वभार्याप्रतिबोधिताः सन्तो मिथ्यादुष्कृतं दत्त्वा स्थिरीभूताः । स्वभार्योपसर्गितो महाशतकच्युतोऽपि भगवत्प्रेरितेन गौतमस्वामिना स्थिरीकृतः । शेषाणामानन्द - कुण्ड कोलिकैनन्दिनीप्रिये-तेतलीपितॄणां चतुर्णां देवकृतोपसर्गाभाव For Private & Personal Use Only ********************** www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 180