Book Title: Vardhaman Deshna Part 02 Author(s): Jain Dharma Prasarak Sabha Bhavnagar Publisher: Jain Dharm Prasarak Sabha View full book textPage 3
________________ प्रस्तावना। द्वितीयेऽस्मिन् विभागे उदाससप्तकात्मके चतुर्थादारभ्य दशमोल्लासपर्यन्ते सुरादेवादीनां सप्तानां श्रावकाणां चरितानि लिखितानि सन्ति । सप्तस्वप्युलासेषु एकैकैव प्रासङ्गिककथा भगवद्देशनायां तत्तद्विषयप्रतिपादिका, लोकद्वयहितावहा, रसालकारादिभूषिता, वाचकवृन्दविनोददा च कथिताऽस्ति । तत्र तावत् सुरादेवश्रावकचरितात्मके चतुर्थोल्लासे भगवता श्रीवर्धमानस्वामिना देशनायां धर्ममाहात्म्यं कथयता घृष्टककथानकं कथितमस्ति । तत्र दुष्टा नार्यः स्वपतिवशीकरणार्थ किं किं स्वभर्तयपि दौष्ट्यं नाचरन्तीत्यादि सविस्तरं विस्तृतं, मन्त्रौषधादीनां च प्रभावो दर्शितोऽ| स्ति, तत्सर्वमपि सद्धर्मस्य प्रभावात् परिणामेऽकिञ्चित्करं भवति । धर्मप्रभावतश्च परिणामहितावहं भवतीति स्पष्टं प्रदर्शितं, देशनोपसंहारे च सम्यक्त्वस्वरूपं मिथ्यात्वग्रंथिभेदस्वरूपं च किश्चित्सविस्तरं कथितमित्यादि । ___ पञ्चमोल्लासे चुल्लशतकश्रावकचरिते भगवता देशनायां दानादिचतुर्विधधर्मे दानस्य पञ्चभेदत्वं प्रकाश्य सुपात्रदानस्य माहात्म्य दर्शयता धनदेवधनमित्रयोरुदाहरणमुदाहृतम् । Jain Education in For Private Porn Use Only neboPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 180