Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 517
________________ SAUSASSESSO संजय'त्ति न चापि पूजां गहीं च प्रतीति शेषः 'असजत्' सङ्गं विहितवान् ,तत्र च अनुन्नतत्वमनवनतत्वं च हेतु - वतः, उन्नतो हि पूजां प्रति अवनतश्च गहाँ प्रति सङ्गं कुर्यान्न त्वन्यथेति भावः, पूर्वत्राभिरुचिनिषेध उक्तः, इह तु सङ्गस्येति पूर्वस्माद्विशेषः, 'स' इति सः' एवंगुणः 'ऋजुभावम्' आर्जवं 'प्रतिपद्य' अङ्गीकृत्य संयतो निर्वाणमार्ग' सम्यग्दर्शनादिरूपं विरतः सन् 'उपैति' विशेषेण प्राप्नोति, वर्तमाननिर्देश इहोत्तरत्र च प्राग्वत् । ततः स तदा कीदृशः किं करोतीत्याह-अरतिरती संयमासंयमविषये सहते-न ताभ्यां बाध्यत इत्यरतिरतिसहः, 'पहीणसंथवेत्ति प्रक्षीणसंस्तवः संस्तवाहीणो वा, संस्तवश्व पूर्वपश्चात्संस्तवरूपो वचनसंवासरूपो वा गृहिभिः सह, प्रधानः स च संयमो । मुक्तिहेतुत्वात् स यस्यास्यसौ प्रधानवान् , परमः-प्रधानोऽर्थः पुरुषार्थो वाऽनयोः कर्मधारये परमार्थो-मोक्षः स पद्यते -गम्यते यैस्तानि परमार्थपदानि-सम्यग्दर्शनादीनि सुज्यत्ययात् तेषु तिष्ठति-अविराधकतयाऽऽस्ते 'छिन्नसोय'त्ति |छिन्नशोकः छिन्नानि वा श्रोतांसीव श्रोतांसि-मिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः अत एवाममोऽकिञ्चनः, इह च |संयमविशेषाणामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुत्तयं, तथा 'विविक्तलयनानि' स्यादिविरहितोपाश्रयरूपाणि विविक्तत्वादेव च 'निरोवलेवाई'ति निरुपलेपानि-अभिष्वङ्गरूपोपलेपवर्जितानि भावतो द्रव्यतस्तु| तदर्थ नोपलिप्सानि 'असंसृतानि' बीजादिभिरव्याप्तानि, अत एव च निर्दोषतया 'ऋषिभिः' मुनिभिः 'चीणोनि' आसेवितानि, चीर्णशब्दस्य तु 'सुचीर्ण प्रोपितव्रत'मितिवत्साधुता, 'फासेज'त्ति अस्पृशत्, सोढवानित्यर्थः, पुनः पुनः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568