Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥५०३ ॥
hi एवं बुवाणं तु, गोयमो इणमब्बवी । विन्नाणेण समागम्म, धम्मसाहणमिच्छियं ॥ ३१ ॥ पच्चयत्थं च लोगस्स, नाणाविहविकप्पणं । जन्तत्थं गहणत्थं च, लोगे लिंगपओअणं ॥ ३२ ॥ अह भवे पन्ना जं, | मुक्ख सन्भूय साहणा । नाणं च दंसणं चेव, चरितं चैव निच्छए ॥ ३३ ॥
_अत्र च विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन समागम्य यद्यस्थोचितं तत्तथैव ज्ञात्वा 'धर्मसाधनं' धर्मोपकरणं वर्षाकल्पादिकम् 'इच्छिय' न्ति 'इष्टम्' अनुमतं पार्श्वनाथवर्द्धमानतीर्थकृद्भ्यामिति प्रक्रमः, वर्द्धमानविनेयानां हि | रक्तादिवत्रानुज्ञाने वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिरतिदुर्निवारैव स्यादिति न तेन तदनुज्ञातं, पार्श्वशिष्यास्तु न तथेति रक्तादीनामपि ( धर्मोपकरणत्वं ) तेनानुज्ञातमिति भावः, किञ्च-प्रत्ययार्थ वा - अमी प्रतिन इति प्रतीतिनिमित्तं कस्य ? - लोकस्य, अन्यथा हि यथाऽभिरुचितं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि वयं त्रतिन | इत्यभिदधीरन्, ततो प्रतिष्वपि न लोकस्य व्रतिन इति प्रतीतिः स्यात् किं तदेवमित्याह - ' नानाविधविकल्पनं' | प्रक्रमान्नानाप्रकारोपकरणपरिकल्पनं, नानाविधं हि वर्षाकल्पाद्युपकरणं यथावद्यतिष्वेव संभवतीति कथं न तत्प्र| त्ययहेतुः स्यात् ?, तथा यात्रा - संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमवाधैव स्यात्, ग्रहणंज्ञानं तदर्थं च कथञ्चिच्चित्तविप्लवोत्पत्तावपि गृह्णातु - यथाऽहं व्रतीत्येतदर्थं लोके लिङ्गस्य – वेषधारणस्य प्रयोज - | नमिति - प्रवर्त्तनं लिङ्गप्रयोजनम् । 'अथे' त्युपन्यासे 'भवे पन्ना उत्ति तुशब्दस्यैवकारार्थत्वाद्भिन्नक्रमत्वाच्च भवे - २
Jain Education International
For Personal & Private Use Only
केशिगौत
मीयाध्य०
२३
॥५०३॥
www.jainelibrary.org

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568