Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 565
________________ 8|| विशिष्टमिति प्रक्रमः, निर्वान्ति-कर्मानलविध्यापनाच्छीतीभवन्त्यस्मिन् जन्तव इति निर्वाणं, इतिशब्दः खरूप-||६| परामर्शको, यत्रापि नास्ति तत्राप्यध्याहर्तव्यः, तत उच्यत इत्यध्याहृत्य निर्वाणमितिशब्देन यदुच्यत इत्यादिभावना विधेया, 'अबाह'न्ति अविद्यमानशारीरमानसपीडमिति प्राग्वत् , सिद्धयन्ति-निष्ठितार्था भवन्त्यस्यां जन्तव इति || सिद्धिः 'लोकाग्रं' सर्वजगदुपरिवर्त्ति 'एवेति पूरणे 'चः' समुच्चये क्षेमं शिवमनाबाधमिति च प्राग्वत् , तथा ४ यत् 'तरन्ति' प्लवन्ते गच्छन्तीत्यर्थः, तत्स्थानमुक्तमिति प्रक्रमः, सविशेषणस्य पृष्टत्वात्तदेव विशिनष्टि-'सासयंवासंति है है बिन्दोरलाक्षणिकत्वात् 'शाश्वतवासं' नित्यावस्थिति ध्रुवमितियावत् , लोकाग्रे दुरारोहमुपलक्षणत्वाजराधभाववत् , ३ प्रसङ्गतस्तन्माहात्म्यमाह-यत्संप्राप्ता न शोचन्ते, कीदृशाः सन्त इत्याह-भवा-नारकादयस्तेषामोघः-पुनः पुनर्भवरूपप्रवाहस्तस्यान्तकराः-पर्यन्तविधायिनो भवौघान्तकराः 'मुणि'त्ति मुनय इति सूत्रपञ्चकार्थः ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। नमो ते संसयाईय!, सव्वसुत्तमहोयही! ८४॥ नवरं नमोऽस्त्विति शेषः 'ते' तुभ्यमिति 'संशयातीत !' सन्देहातिक्रान्त ! सर्वसूत्राणां महोदधिरिव महोदधिः । सामस्त्येन तदाधारतया तत्संबोधनं सर्वसूत्रमहोदधे !, अनेनोपबृंहणागर्भ स्तवनमाह । प्रश्नोपसंहारमाह नियुक्तिकृत्'एवं बारससु कमोति, एवमित्युक्तरूपो द्वादशसु प्रतिपादितप्रश्नेषु 'प्रक्रमः' परिपाटी, किमुक्तं भवति ?-अनेनैव क्रमेणामी केशिना कृताः, तथाहि-धर्मार्थत्वात्सर्षानुष्ठानस्य शिक्षाव्रतरूपत्वाचास्य प्रथमतस्तेषां प्रश्नः, ततो लिङ्ग-18 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568