Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥५०७ ॥
प्रवृत्त्याऽश्वश्च दुष्टाश्वः 'परिधावति' समन्ताद्गच्छति यः कीदृगित्याह-यं दुष्टाश्रमभिभवसि यदिवा 'यंसि 'त्ति यस्मिन् हे गौतम! 'आरूढः' चटितः, अनारूढस्य हि न वक्ष्यमाणापायहेतुरसौ स्यादित्येवमभिधानं, ततः कथमिति प्रश्ने 'तेन' इति दुष्टाश्वेन 'न हियसे' प्रस्तावान्नोन्मार्ग नीयसे ? । गौतम आह- 'प्रधावन्तम्' उन्मार्गाभिमुखं गच्छन्तं 'निगृह्णामि' निरुणध्मि, कीदृशं तमित्याह श्रुतम् - आगमो नियन्त्रकतया रश्मिरिव रश्मिः - प्रग्रहः श्रुतर| श्मिस्तेन समाहितो - बद्धः श्रुतरश्मिसमाहितस्तम्, अतो न 'मे' मम सम्बन्धी दुष्टाश्वः 'गच्छति' याति 'उन्मार्गम्' उत्पथं, ततो न मम तेन हरणमिति भावः, ततश्च किमुदास्त एवेत्याह- 'मार्ग च' सत्पथं पुनः 'प्रतिपद्यते' अङ्गीकुरुते । 'अस्से य' इत्यादि सुगमं, नवरं 'मनः' चित्तम्, इह च साहसिक इत्याद्यभिधानं प्रक्रमानुस्मरणार्थ, विशेषमुपदर्शयन्नुपसंहारमाह - तं सम्यग् निगृह्णामि धर्मविषया शिक्षा-उपदेशो धर्मशिक्षा तया, यद्वा शिक्षा - अभ्यासस्ततो 'धर्मशिक्षायै' धर्माभ्यासनिमित्तं कन्थको जात्याश्वस्ततश्च कन्थकमिव कन्थकं किमुक्तं भवति ? - दुष्टाश्वोऽपि निग्रहण| योग्यः कन्थकप्राय एवेति सूत्रचतुष्टयार्थः ॥ केशिराह
Jain Education International
साहु 'गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ५९ ॥ साहुसूत्रं तथैव । तथा 'पथपरिज्ञाते' यष्टमं द्वारमाश्रित्याहकुप्पहा बहवे लोए, जेसिं नासंति जंतवो । अद्धाणे कह वहतो, तं न नाससि गोयमा ! १ ॥ ६० ॥ जे अ
For Personal & Private Use Only
केशिगौत
मीयाध्य०
२३
॥५०७ ॥
www.jainelibrary.org

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568