Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 561
________________ च अत एव महोदकवेगस्य-क्षुभितपातालकलशवातेरितप्रवृद्धजलमहाश्रोतोवेगस्य 'गतिः' गमनं 'तत्रेति महाद्वीपे न विद्यते । 'दीवे' इत्यादि, गतार्थं । जरामरणे एव च निरन्तर प्रवाहप्रवृत्ततया वेगः प्रक्रमादुदकमहाश्रोतसो | जरामरणवेगस्तेनोद्यमानानामपरापरपर्यायमयनेन 'प्राणिनां ' जीवानां 'धर्मः श्रुतधर्मादिः द्वीप इव द्वीप उक्त इति प्रक्रमः, स हि भवोदधिमध्यवर्त्ती मुक्तिपदनिबन्धनतया न जरामरणवेगेन गन्तुं शक्यत इति, तत्र तथाविधजरामरणाभावाद्, अत एव विवेकिनस्तमाश्रित्य तिष्ठन्तीति प्रतिष्ठा, तथा गतिः शरणं चोत्तमं प्राग्वत् । इहापि द्वीपमात्र| प्रश्नाभिधानेऽपि शेषाभिधानं प्रक्रमोपलक्षणत्वात्तत्प्रश्नस्येति भावनीयमिति सूत्रचतुष्टयार्थः ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ६८ ॥ साहुसूत्रमुक्तार्थम् । इदानीं संसारपारगमनाख्यं दशमद्वारमाश्रित्याह अन्नसि महोहंसि, नावा विपरिधावई । जंसि गोयममारूढो, कहं पारं गमिस्ससी १ ॥ ६९ ॥ जा उ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ ७० ॥ नावा अ इइ का कुत्ता ?, केसी गोयममव्यवी । तओ केसिं बुवंतं तु, गोयमो इणमन्यवी ॥ ७१ ॥ सरीरमाहु नावत्ति, जीवो वुञ्चह नाविओ । संसारो अन्नवो वृत्तो, जं तरंति महेसिणो ॥ ७२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568