Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 539
________________ __ गाथात्रयं प्राग्वन्नवरं गौतमामिलाप एव विशेषः, 'एवमेव' उक्तप्रकारेणैव ‘केशेरपि' केशिशब्दस्यापि निक्षेप(:)चतु कको भवति, ज्ञातव्य इति शेषः, गाथात्रयार्थः ॥ नामान्वर्थमाहगोअम केसीओ आ संवायसमुट्रियं तु जम्हेयं । तो केसिगोयमिजं अज्झयणं होइ नायवं ॥ ४५१॥ ६ गौतमात् केशिनश्च संवादः-परस्परभाषणं वचनैक्यं वा यतस्तयोस्तात्पर्यत एकार्थाभिधायितयै(ते)व ततः संवा दात्समुत्थितम्-उत्पन्नं संवादसमुत्थितम् , अनेन भावार्थ उक्तः, तुः अवधारणे, ततो गौतमात्केशिनश्च संवादसमु-|| त्थितमेव यस्मादेतत्-प्रस्तुतं ततः केशिगौतमयोभवमित्यर्थे 'नामधेयेन नामधेयत्वेऽस्येति वृद्धसञ्जत्वात् , 'वृद्धाच्छः' (पा०४-२-११४) इति छप्रत्यये केशिगौतमीयमध्ययनं 'भवति' ज्ञातव्यमिति गाथार्थः ॥ उक्तो नामनिष्पन्ननिक्षेपः, इदानीं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम् जिणे पासित्ति नामेणं, अरहा लोगपूइए । संबुद्धप्पा य सम्वन्नू, धम्मतित्थयरे जिणे ॥१॥ | 'जिनः' परीषहोपसर्गजेता पार्श्व इति नाम्नाऽभूदिति शेषः, स चान्योऽपि संभवत्यत आह-अर्हति देवेन्द्रादिविहितानि वन्दननमस्करणादीन्यहन् तीर्थकृदित्यर्थः, अत एव लोकपूजितः संबुद्धः-तत्त्वावगमवानात्माऽस्येति संबुद्धात्मा, 'चः पूरणे, स चानुत्पन्नकेवलोऽपि स्यादित्याह-सर्वज्ञः' सकलद्रव्यपर्यायवित् , तथा धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकर 'जिनः' जितसकलकर्मा, भवोपग्राहिकर्मणामपि दग्धर Jain Educeae For Personal & Private Use Only Tiw.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568