Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गौतम सगोत्रः 'कालकच्छविः' कृष्णत्वक् । 'झसोदरो 'ति झपो - मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ झषोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारकापुरीं यदुपु निहते जरासिन्धनृपतावधिगतभरताद्वैराज्यः केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजया देशतो यदचेष्टत तदाह - 'तस्य' अरिष्टनेमिनो राजीमती भार्या गन्तुमिति शेषः, याचते केशवस्तज्जनकमिति प्रक्रमः । सा च कीदृशीत्याह - 'अर्थ' इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा तस्यैव वरकन्या राजवरकन्या सुष्ठु शीलं – स्वभावो यस्याः सा सुशीला चारु प्रेक्षितुं - अवलोकितुं शीलमस्याः चारुप्रेक्षिणी, नाघोदृष्टितादिदोषदुष्टा, 'विज्जुसोयामणिप्पह'त्ति विशेषेण द्योतते - दीप्यत इति विद्युत् सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा विद्युदभिः सौदामिनी | च तडित् अन्ये तु सौदामिनी प्रधानमणिरित्याहु: । 'अथ' इति याञ्चाऽनन्तरमाह जनकस्तस्याः -राजी - मत्या उग्रसेन इत्युक्तं, 'जा से' त्ति सुच्च्यत्ययाद् येन तस्मै ददामि' विवाहविधिनोपढौकयाम्यहम् । एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने च क्रौष्ठिक्यादिष्टे विवाहलग्भे यदभूत्तदाह - सर्वाश्च ता औषधयश्च - जयाविजयर्द्धिवृद्ध्यादयः सर्वोषधयस्ताभिः स्रपितः - अभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र कौतुकानि - ललाटस्य मुशलस्पर्शनादीनि मङ्गलानि च दध्यक्षतदूर्वाचन्दनादीनि 'दिवजुयलपरिहिय'त्ति प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाद् दूष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्टकम् - अतिशयप्रशस्यमतिवृद्धं वा गुणैः
Jain Education International
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568