SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ गौतम सगोत्रः 'कालकच्छविः' कृष्णत्वक् । 'झसोदरो 'ति झपो - मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ झषोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारकापुरीं यदुपु निहते जरासिन्धनृपतावधिगतभरताद्वैराज्यः केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजया देशतो यदचेष्टत तदाह - 'तस्य' अरिष्टनेमिनो राजीमती भार्या गन्तुमिति शेषः, याचते केशवस्तज्जनकमिति प्रक्रमः । सा च कीदृशीत्याह - 'अर्थ' इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा तस्यैव वरकन्या राजवरकन्या सुष्ठु शीलं – स्वभावो यस्याः सा सुशीला चारु प्रेक्षितुं - अवलोकितुं शीलमस्याः चारुप्रेक्षिणी, नाघोदृष्टितादिदोषदुष्टा, 'विज्जुसोयामणिप्पह'त्ति विशेषेण द्योतते - दीप्यत इति विद्युत् सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा विद्युदभिः सौदामिनी | च तडित् अन्ये तु सौदामिनी प्रधानमणिरित्याहु: । 'अथ' इति याञ्चाऽनन्तरमाह जनकस्तस्याः -राजी - मत्या उग्रसेन इत्युक्तं, 'जा से' त्ति सुच्च्यत्ययाद् येन तस्मै ददामि' विवाहविधिनोपढौकयाम्यहम् । एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने च क्रौष्ठिक्यादिष्टे विवाहलग्भे यदभूत्तदाह - सर्वाश्च ता औषधयश्च - जयाविजयर्द्धिवृद्ध्यादयः सर्वोषधयस्ताभिः स्रपितः - अभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र कौतुकानि - ललाटस्य मुशलस्पर्शनादीनि मङ्गलानि च दध्यक्षतदूर्वाचन्दनादीनि 'दिवजुयलपरिहिय'त्ति प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाद् दूष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्टकम् - अतिशयप्रशस्यमतिवृद्धं वा गुणैः Jain Education International For Personal & Private Use Only jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy