Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1120 उपमितिभवपश्चा कथा / तदेवमस्ति ते महाराज वञ्चित्तवृत्तौ विविधनगराकराद्याकुलमन्तरङ्गमहाराज्यं / केवलमभिभूय तान् युभद्धितकरणशीलांश्चारिचधर्मराजादीन् बहिष्कृत्य च भवन्तं महामोहादिभिस्तदियन्त कालमुद्दाशितमामौत् / अमावपि कर्मपरिणामो भवतः प्रतिकूलतया तदेव महामोहादिबलं पुष्णाति स्म / साम्प्रतं पुनरसौ भवतोऽनुकूलो वर्तते / तेनैव च भवन्तं प्रति प्रगुणीकृतात्मीयमहादेवौ कालपरिणतिः प्रमादिता ते भार्या भवितव्यता प्रहौकतो निजमहत्तमस्तेऽङ्गभूतः स्वभावः प्रोत्साहितस्तव सहचरः पुण्योदयः / तथावधौरिताः किंचिन्महामोहादयः श्राश्वासिताचारित्रधर्मराजादयः दर्शिता ते पूर्वमत्यन्तसुखमालिका / यतःप्रमति पुनस्ते वल्लभौभूतः सदागमोऽभौष्टीभूतः सम्यग्दर्शनाख्यो महत्तमः तत प्रारभ्यानुकूलतरोऽसौ कर्मपरिणामो वर्तते / ततो जनिता सपरिवारेण तेन विबुधालये निवसतस्ते विशिष्टतरा सुखपद्धतिः। अधुना मधुवारणराजमन्दिरमवाप्तस्य ते सुखमन्दोहमिद्धये सुतरां प्रोत्साहितोऽसौ तव वयस्यः पुण्योदयः / ततस्तेन संपादितेयं तव बहिरङ्गभार्या मदनमञ्जरी। तेनैव च महापुरुषतया किलाहं कोऽत्र कार्यसम्पादनस्य नूनमेतान्येव मकलकार्याणि घटयन्तीति मन्यमानेन कामरूपितया दर्शितानि स्वप्ने कनको दरराजस्य तान्येव कर्मपरिणामकालपरिणतिस्वभावभवितव्यतालक्षणनि निरूपितोऽस्माभिरेव वरो मदनमञ्जर्याः ततोऽलं भवतामन्यवरान्वेषणेनेति ब्रुवाणान्येव चत्वार्यपि मानुषरूपतया / तेषु च विद्याधरेषु वैमुख्यमस्या मदनमचर्यास्तेनैव तव वयसेन For Private and Personal Use Only

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599