Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 579
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1134 उपमितिभवप्रपञ्चा कथा / परिवारस्तवामूनि भवानेवात्र नायकः / / तथाहि। भवतो योग्यतापेक्षं चेष्टन्ते सर्वकर्मसु / ते कर्मपरिणामाद्यास्वच्छुभाशुभहेतवः // ततस्ते निजयोग्यत्वं प्रधानं भूप कारणम् / सुन्दरतरवस्तूनां ते पुनः सहकारिण: // राजननादिरूढा मा विद्यते तव योग्यता / यया संपादितः मर्वः प्रपञ्चोऽयममूदृशः // तया विना पुनः सर्व सुन्दरेतरवस्तुषु / ते कर्मपरिणामाद्याः किं कुर्वन्तु वराककाः // ततलमत्र प्राधान्यात्कारणत्वेन गोयसे / सुन्दरेतरकार्याणं सर्वेषामात्मभाविनाम् // मयोकं नाथ यद्येवं मम कार्यप्रसाधनम् / ततः किमियदेवात्र कारणानां कदम्बकम् // किंचान्यदपि विद्येत मम कार्यप्रसाधकम् / सूरिराह महाराज समाकर्णय साम्प्रतम् // यास्त्यसौ निर्दृति म नगरी सुमनोहरा / निरन्तानन्दसन्दोहपरिपूर्णा निरामया // तस्थामनन्तवौर्यादयः सर्वजः सर्वदर्शनः / अनन्तानन्दसंपूर्णः सुस्थितः परमेश्वरः // यो विद्यते महाराज सर्वस्य जगतः प्रभुः / सुन्दरेतर कार्याणां स ते परमकारणम् // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599