Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1142 उपमितिभवप्रपञ्चा कथा। घटयितुं शक्यत इति / कन्दमुनिराह / भदन्त किमत्र वक्रव्यमधनवायं भगवचनकरणेन यथार्थो भविष्यति गुणधारणः / तत्करोत्येवैष यदाज्ञापयन्ति भगवन्तः / केवलमादिशन्तु विशेषेण नाथाः के पुनरनेन तामां कन्यकानां लाभाय सगुणाः सततमनुशौचनीयाः / भगवतोतं / चार्य क्षान्तिमभिवाञ्छता तावदनेन भावनौया समस्तजन्तुषु मेत्री सहनीयः परविहितः परिभवः अनुमोदनीयस्तद्वारेण परप्रौतियोगः चिन्तनीयस्तत्सम्पादनेनात्मानुग्रहः निन्दनीयः परिभावकदुर्गतिहेतुतयात्मा श्लाघनीयाः परकोपकारणभावरहिता धन्यतया भगवन्तो मुक्तात्मानः ग्रहीतव्याः कर्मनिर्जरणहेतुतया न्यक्कारकर्तारो हितबुद्ध्या प्रतिपत्तव्याः संमारामारत्वदर्शितया त एव गुरुभावेन सर्वथा विधेयं निष्पकम्पमन्तःकरणमिति / ___ दयां पुनः परिणिनौषतानेन सर्वथा वर्जनीयः स्तोकोऽपि परोपतापः दर्शनीयः सर्वदेहिनां बन्धुभावः प्रवर्तितव्यं परोपकारकरणे नोदामितव्यं परव्यसनेषु सर्वथा भवितव्यं समस्तजगदाबादकरामृताशयधारिणेति // मृदुतां पुनरार्य विवाहयिषता महाराजेन मोक्तव्यो जातिवादः परित्याज्यः कुलाभिमानः वर्जनौयो बलोट्रेकः रहयितव्यः रूपोत्मेकः परिहर्तव्यस्तपोवष्टम्भः निराकरणीयो धनगर्वः निर्वामनीयः श्रुताहङ्कारः अपक्षेप्तव्यो लाभमदः शिथिलयितव्यो वालभ्यकानुशयः सेवनौया नम्रता अभ्यसनीयो विनयः सर्वथा कर्तव्यं नवनौतपिण्डोपमं हृदयमिति // For Private and Personal Use Only

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599