Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहमः प्रस्तावः / तथा परिहरतः परेषां मर्माहट्टनं वर्जयतः पैशान्यं विमुञ्चतो ऽवर्णवादं शिथिलयतो वाक्पारव्यं गर्हयतो वक्रोकिं अनाचरतः परिहास अवदतोऽलोकवचनं त्यजतो वाचाटतां विदधतो भूतार्थोडावनं प्रगुणीभविष्यति गुणानुरक्ता महाराजस्य स्खयमेव मा सत्यतेति / तथा निर्भयता कौटिल्यं दर्शयता सर्वत्र सरस्वभावं परित्यजता परवञ्चनं विमखयता मानसं समनुशीलयता प्रकटाचारतां अनुवर्तयता सद्भावप्रधानतां सर्वथा कुर्वता प्रगुणदण्डोपममात्मान्त:करणं महाराजेन मा ऋजुता वशीकर्तव्येति / / __तथा धारयति परपीडाभौरुतां निराकुर्वति परद्रोहबुद्धिं वर्जयति परधनहरणं लक्षयति तदपायहेतुतां ग्रहति दुर्गतिभयं महाराजे संजातानुरागागमिष्यति खयंवरा मा नूनमचोरतेति / ___ मुक्रतां पुनरभिलषतार्य महाराजेन मात्मीभावमानेतव्यो विवेकः द्रष्टव्यो बाह्याभ्यन्तरग्रन्थाभित्रः खल्वात्मा शमनीया ग्रन्थपिपामा धारणीयं भावतो बहिरन्तश्चालनमन्तःकरणं सर्वथा पङ्कजलाभ्यामिवार्थकामाभ्यामश्लिष्टः पद्मवज्जनयितव्यो निजभाव इति / - ब्रह्मरतिं पुनः पाणौ जिक्षता मुने महाराजेन प्रतिपत्तव्याः समस्ता अपि मातर इव सुरनरतिरश्च नार्यः न वस्तव्यं तदसतो न कार्या तत्कथा न भजनौया तनिषद्या न विलोकनौयानि तदिन्द्रियाणि न स्थातव्यं रतिस्थमिथुनकुड्याभ्यर्थं न स्मरणीयं पूर्वललितं नाहरणीयः प्रणौताहारः रक्षणीया तदतिमात्रा न करणीया शरीरराढा सर्वथोद्दलनीया रताभिलाषितेति / For Private and Personal Use Only

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599