Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एमः प्रस्तावः। 1146 प्रकटः पक्षपातोऽत्र सर्वसाधारणो ह्ययम् // यतः / कृते मत्तो विरज्यन्ते पक्षपाते स्वबान्धवाः / महामोहादयोऽतो मे युक्तं नाकाण्डविड्वरम् / / तथाहि / अद्य चारित्रधर्मीयं वल्लभं मे महाबलम् / गुणाः संसारिजीवस्य सुन्दरं प्रतिभासते // अथ दोषेषु वर्तत भूयोऽप्येष यथा पुरा / ततश्चिरन्तनस्थित्या गतिम निजबान्धवाः // तस्मात्प्रच्छन्नरूपेण तस्येदं हितकारकम् / बलं चारित्रधर्मीयमहं पुष्णामि साम्प्रतम् // येनेदं जीयतेऽनेन बलं पापोदयादिकम् / न च मत्तो विरज्यन्ते महामोहादिबान्धवाः // ततः सम्यग्विनिश्चित्य तेनोपायं महात्मना / तथा मदुपदिष्टास्ते वर्धिता वरभावनाः / / यावत्त भावनारूढः स्थितस्त्वं गुणधारण / तावत्तत्प्रबलौभूतं सबोधसहितं बलम् // यतः / मणिमन्त्रौषधादौनां भावनानां विशेषतः / अचिन्य मिह विज्ञेयं वौर्यमाश्चर्यकारकम् // ततो यथा यथा भूप प्रवृद्धास्तव भावनाः / तथा तथा रणे चौणा महामोहादयः स्वयम् // For Private and Personal Use Only

Page Navigation
1 ... 592 593 594 595 596 597 598 599