Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1950 उपमितिभवप्रपञ्च कथा / ततः प्रबलतां प्राप्य क्षणादेव विनिर्जितम् / तेन मद्दोधमन्येन बलं पापोदयादिकम् // सर्वे प्रहारिताः प्रायो महामोहादिशत्रवः / चर्णितः स विशेषेण ज्ञानसंवरणो नृपः // स्थिता निष्पन्दमन्दास्ते सर्व पापोदयादयः / निर्वाहितः खसैन्येन मद्दोधः मह विद्यया // गते चाभ्यर्णतां भूप तव मद्दोधमन्त्रिणि / म तादृशस्तदा जातो हर्षोल्लासोऽतिसुन्दरः // सबोधसचिवो दृष्टः परिणौता च कन्यका / राजन्पुनस्त्वया सर्व ज्ञातमेव ततः परम् // तदिदं कारणं भूप भावनानां विवृद्धये / हर्षोल्लामाय चापन्नं रात्रौ ते नात्र संशयः // मयोक्तं / अधुना किं प्रकुर्वन्ति ते ममान्तरशत्रवः / सूरिराह महाराज कुर्वते कालयापनाम् // किं च / उदौर्णास्ते गता नाशमुपशान्तास्तथापरे / सर्वेऽपि चित्तवृत्तौ ते लौनलौनतया स्थिताः // पुनः प्रस्तावमामाद्य कृत्वा ते सर्वमौलनम् / सङ्ग्रामाय लगिव्यन्ति मत्सरामातचेतसः // ततस्वया महाराज सद्बोधवचनात्तदा / चारित्रधर्मसुभटैरिणीयाः पृथक् पृथक् // For Private and Personal Use Only

Page Navigation
1 ... 593 594 595 596 597 598 599