Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 590
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चष्मा प्रस्तावः। 1945 हि परमार्थतः प्रव्रज्या यदस्य मदुपदिष्टस्थानुष्ठानं / द्रव्यलिङ्गं हि भवता ग्रहीतं पूर्वमप्यनन्तवाराः / न चैतयतिकरव्यतिरेकेण भवतस्तेन ट्रयलिङ्गेन कश्चिद्विशिष्टतरः सम्पादितो गुणः। तदलं तावत्ते तदर्थमुत्तरितेनेदमेव मदुपदिष्टं कुर्वाणस्तिष्ठेति / कन्दमुनिनोक्तं / भदन्त केन पुनः क्रमेण महाराजेन ताः कन्यकाः परिणेतव्याः / भगवतोकं / प्रार्य मदुपदेशमनुतिष्ठतोऽस्य समीपमागमिष्यत्यसो विद्यामादाय सद्बोधो मन्त्री विवाहयिष्यत्यनेन तां कन्यकां स्थास्यत्यस्य समीपस्थः / ततः किमनेन बहुना / यदसौ किमपि ब्रते तदेवानैनानुष्ठेयं / जानात्येवामौ प्राप्तकालं सर्व कारयितुं / तस्यागमने हि ममाश्यतेऽस्मादृशामुपदेशावकाशः / तस्मात्स एव सद्दोधः सर्वत्र महाराजेन प्रमाणीकर्तव्य इति / मयोक्तं ! नाथ महाप्रमाद इच्छामोऽनुशास्तिं / ततोऽभिवन्द्य सपरिवारः सपरिकरं भगवन्तं प्रविष्टोऽहं नगरे / प्रारब्धोऽनुष्ठातुं भगवदुपदेशं / गच्छन्ति दिनानि भगवत्पर्युपासनया // अन्यदा भावयतो भगवदुपदिष्टा भावना रात्रौ समागता मे निद्रा / प्रबुद्धस्तयैव वासनया / ततः प्रद्धा गाढतरं भावनाः / ततो रात्रिोषे संजातो मे प्रमोदातिरेकः / ततः किमेतदिति विस्मितोऽहं यावत्समागतो मत्समीपं सबोधो मन्त्री / विलोकितोऽसौ मया। तदभ्यर्ण च पानन्ददायिका दृष्टेः सर्वावयवसुन्दरा / आम्तिक्यचारुवदना धवलामललोचना // तत्त्वावगमसंवेगनामकं स्तनमण्डलम् / धारयन्ती नितम्बं च प्रशमाख्यं मनोहरम् // 144 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599