Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 585
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1140 उपमितिभवप्रपञ्चा कथा / तत्कथं भगवद्भिरादिष्टं यथाधना संपादितस्तवानेन पुण्योदयेनायं सुखलेश इति / तथाहि यद्ययमपि सुखलवस्तर्हि कौदृशं पुनस्तत्मपूर्ण सुखं स्यादिति संजातो मे मनसि वितर्कः / ततः कथयन्त भगवन्तः कीदृशं पुनः शरीरिणस्तत्संपूर्ण सुखमिति / निर्मलमूरिणोतं। महाराज गुणधारण स्वानुभवेनैव विज्ञास्यसि त्वं तत्वरूपं किं तस्य कथनेन / मयोक्तं / भदन्त कथं / भगवानाह / महाराज परिणेष्यसि त्वं दश कन्यकाः / भविष्यति ताभिः सह सद्भावसारस्ते प्रेमाबन्धः / ततस्तदोद्दामलीलया विलसतस्ते तन्मध्ये यत्सुखं संजनिष्यते तदपेक्षया सुखलव एवायमधुनातनो वर्तते / मयोक्तं / भगवन्नवधारितमिदानौं मया यथाहमेनामपि मदनमञ्जरौं परित्यज्य भगवत्पादमूले प्रबजितको भविष्यामि तत्कथमहं कन्यकादशकं परिणेव्ये / भगवतोतं / अवश्यं त्वया परिणेतव्यास्ताः कन्यकाः / किं च युक्तमेव ताभिः प्रव्राजयिष्यामो भवन्तं / न विरुध्यते ताभिः सार्धं प्रव्रज्या / किं वा तद्रहितस्य ते प्रव्रजितेन / न वलते हि प्रव्रजितो विरहितस्तादृशकुटुम्बिनौभिः। ततस्ताः परिणीय नियमाद्भवता प्रव्रजितव्यमिति / एतच्चाकर्ण्य किमेवं भगवान् भाषत इति विमर्शन स्थितोऽहं विस्मितः। कन्दमुनिनोकं / भदन्त कतमास्ताः कन्यकाः याः परिणेतव्या महाराजेन / भगवानाह / यास्ताः पूर्व निवेदिता मयास्यैव चिरन्तनवृत्तान्तं कथयता ता एव ताः कन्यका नान्याः / कन्दमुनिराह / भदन्त विस्मृतास्ता मेऽधुना / अतो ममानुग्रहेण यत्र ता वर्तन्ते यस्य वा सम्बन्धिन्यो यन्नामिका वा सर्वमिदं निवेदयितुमईन्ति भगवन्तः / भगवतो। आकर्णय / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599