Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 583
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1138 उपमितिभवप्रपञ्चा कथा / तयापि च कृतं कार्य कृतं तेनाभिधीयते / यतः प्रचोदकस्तस्याः सैव पुण्योदयोऽनघः // अयं हि कार्यं कुर्वाण: सुन्दरं ते नरोत्तम / संप्रेर्य कारयत्यन्यैहेतुभिर्न पुनः स्वयम् // पापोदयोऽपि कुर्वाणस्तव कार्यमसुन्दरम् / प्रचोद्य कारयत्यन्यैर्हतभिर्न पुनः स्वयम् // तदन्ये हेतवो भूप सुन्दरेतरवस्तुषु / अप्रधानावया ज्ञेयास्तावेव परमौ यतः // तथाहि / पूर्व पापोदयेनैव कारणैरपरापरैः / कारितानि विचित्राणि दुःखानि बहुशस्तव // इदानौं कारयत्येष स्वसामर्थ्येन ते सुखम् / निमित्तमाचं बाह्यानि वस्वनि गुणधारण // मयोक्तं / भगवन्नष्टो मेऽधुना समस्तसन्देहः / अवधारितमिदं मया भगवद्वचनेन / यदुत / यदाहमज्ञानात्तिष्ठामि नितिनगरौपरमेश्वरमहाराजसुस्थिताज्ञालकाने करोमि भावान्धकारमलिनां चित्तवृत्ति पोषयामि महामोहादिबलं तदा तत्तादृशं मदीयखरूपमालोक्य प्रतिकूलतां गतानि कर्मपरिणामकालपरिणतिखभावभवितव्यतादीनि तेन कर्मपरिणामसेनापतिना पापोदयेन मत्प्रतिकूलात्मीयानौकसहितेन मम . विविधदुःखपरंपरां तत्सम्पादकपरापरबाह्याभ्यन्तरवस्तुप्रेरणदारेण जनयन्ति / यदा पुनरहं खयोग्यतामपेक्ष्य तस्यैव भगवतः सुस्थितमहानृपतेः प्रमादेनावाप्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599