Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 582
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्ठमा प्रस्तावः। प्रधानगणभावेन विज्ञेयाः सर्वकर्मसु // एकेनापि विना भूप कार्यसिद्धिर्न विद्यते / अमौषां प्रोक हेतूनां समाजः कार्यकारकः || मयोकं कारणग्रामः किं पूर्णोऽयं निवेदितः / एतावानेव किं वास्ति नाथान्यदपि कारणम् // सूरिराह महाराज प्रायश: प्रतिपादितः / एतावानेव हेतूनां मौलकः कार्यसाधकः // अत्रैव शेषनामन्तर्भावो हि विद्यते / यथा यदृच्छानियतौ प्रविष्टे भवितव्यताम् // ततो निर्नष्टसन्देहस्तदाहं वरलोचने / प्रतिपद्य गुरोर्वाक्यं तत्तथेति कृताञ्जलिः // पृष्टवानपरं सूरि मन्देहं मानसे स्थितम् / गाढमडतहेतुत्वात्पूर्वकाले वितर्कितम् // यदुत भगवन् एकं भूमौ तथाकाशे वर्तमानं द्वितीयकम् / तदाम्बरचरं सैन्यं स्तम्भितं केन हेतुना // मूरिराह महाराज तत्रापि परकारणम् / सैव पुण्योदयो ज्ञेयः शेषकारणचोदितः // केवस्वं तस्य वीर्येण प्रसन्ना वनदेवता / तवोपरि तया सर्व स्तम्भितं तद्दलद्वयम् // रक्षितं मरणं तेषां खेचराणां तवेच्छया / विमुक्तास्त्वदभिप्रेता जनिता बान्धवोपमाः / / 1.13 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599