Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 584
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः / 1136 संज्ञानो भवामि ततस्तदाज्ञायां वर्ते विदधामि भावतमःक्षालनेन निर्मलां चित्तवृत्तिं प्रौणयामि चारित्रधर्मराजादिकं सैन्यं तदा तत्तादृशं मदीयचरितमाकलय्यानुकूलतां गतानि कर्मपरिणामकालपरिणतिखभावभवितव्यतादीनि अनेन द्वितीयेन कर्मपरिणामसेनापतिना पुण्योदयेन मदनुकूलात्मीयम न्यसहितेन मम सुखपरंपरां तज्जनकान्यबाह्याध्यात्मिकवस्तुप्रचोदनमुखेनैव संपादयन्ति / तदेषां सामग्री जनिका न पुनरेकं किंचित्कस्यचिजनकमस्तौति / केवलं यदादिष्टं भगवद्भिर्यथायं तवामुना पुण्योदयेनेदानौमौदृशः सुखलेश: संपादित इत्यनेन वाक्येन जनितो मे कुढ़हलातिरेकः। यतश्चिन्तितं मया। अये यस्मिनहनि मया लब्धा मदनमञ्जरी तथावाप्ता अनर्घया भूरिरत्नराशयः प्रशमितं चिन्तितमात्रेण खेचराणां रणविवरं समुत्पन्नस्तेषां परस्परं बन्धुभावः गताः सर्वेऽपि मम मृत्यतां जनितस्ताताम्बादिपरितोषः प्रादुर्भूतो महोत्सवः समुत्यादितो नागरकानन्दः प्राप्ता मझवने ऽम्बरचराः विहितं तातेन तत्मन्मानादिकं साधितोऽहं सर्वैः उल्लामितो याःपटहः तदहर्मम सुखनिर्भरतया ऽमृतमयमिव प्रतिभामितमासीत् / तथा वर्धमाने मदनमञ्जर्या मह प्रेमाबन्धे जाते कन्दमुनिदर्शने मित्रतामुपगतेषु सातसदागमसम्यग्दर्शनग्रहिधर्मेषु परिणते महाराज्ये विलसतो यथेच्छया सुखमन्दोहपरिपूर्णतया संजाता मम देवलोकसुखेऽप्यवज्ञा / तथाधुना दृष्टे भगवति वन्दिते सविनयं नष्टे सन्देहे पश्यता भगवद्वदनकमलमाकर्णयतो वचनामृतं मम सुखातिरेको वाग्गोचरातीतो वर्तते / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599