Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 576
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अरमः प्रस्तावः। एकः पापोदयो द्वितीयोऽयमेव पुण्योदय इति / स च पापोदयस्ते गाढं प्रतिकूलः स्वरूपेण। अत एव कर्मपरिणामस्य सम्बन्धि यत्तव वैरिभूतमेकान्तेनासुन्दरं सैन्यं तदेवासावधिकुरुते / पुण्योदयतु तवानुकूलः / अत एव कर्मपरिणामस्य सत्कं यत्ते बन्धभूतं सुन्दरमनीकं तदेवायमधिकुरुते / म च पापोदयस्तवानादिरूढोऽसंव्यवहारनगरादारभ्याभिव्यकरूपः सखाभूदेव / ततः सुप्रसिद्धत्त्वाब दर्शितस्ते क्वचिदप्यमौ विशेषतो भवितव्यतया / ततस्वस्येदं महाराज गुणधारण समस्तं माहात्म्यं पत्ते संपनमनन्तकालमेवं परिभ्रमणं संभृता भूरिदुःखसन्ततयः परिकल्पितं हिंसादिषु हितत्वं न लक्षितोऽयं हितकरणशौलः पुण्योदयः / अन्यक्ष / तेनैव पापोदयेन बहिष्कृतस्त्वं तस्माञ्चित्तवृत्तिवर्तिनः स्वकीयादन्तरङ्गमहाराज्यात् / तेनैव चाभिभूय प्रच्छादितं तव खाङ्गिकमेकान्तहितं चारिचधर्मराजादिकमन्तरङ्गबलं / तेनैव चानवरतं पारितोषिकमेकान्ताहितमपि बन्धुभूतं च दर्शितं महामोहादिमैन्यं वष्टतया च प्रकटितस्ते पुरतो वत्मलमित्ररूपतयात्मा / नथायमपि पुण्योदयस्तदा। तेन पापोदयेनानुबद्धो यद्यपि ते सुखकारणमभृत् तथापि न कल्याणपरंपराहेत्ता प्रतिपन्न इति / तत्रास्य वराकस्य दोषः किं तर्हि तस्यैव दुरात्मनः सर्वोऽप्ययं दोष इति / मयोक्तं / भगवचिदानौं किमित्यसौ पापोदयस्वष्णौमास्ते / भगवतो / महाराज न खतन्त्रः खल्वसौ किं तर्हि सोऽयमोषां कर्मपरिणामकालपरिणतिखभावभवितव्यतादौनामायत्तो वाते / ततोऽमौभिरेव माम्प्रतं भवतः सका पादूरीकतोऽसौ दुरात्मा / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599