Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 551
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 488 एवं च स्थिते / अमौ वराकाः सर्वेऽपि डोलायन्ते भवोदधौ / अस्थाः कुदृष्टेर्वोर्यण शुद्धधर्मवहिष्कृताः // तत्त्वमार्गमजानन्तो विवदन्ते परस्परम् / खाग्रहं नैव मुञ्चन्ति रयन्ति हितभाषिणे / तदेषा भुवनख्याता मिथ्यादर्शनवमला। कुदृष्टिविलमत्येव बहिरङ्गजनाहिता // यस्वेष विष्टरे तुङ्गे निविष्टः प्रविलोक्यते / प्रसिद्ध एव भद्रस्य म नूनं रागकेसरौ // एनं राज्ये निधायोचैर्महामोहनराधिपः / गतचिन्ताभरो नूनं कृतार्थो वर्ततेऽधुना // केवलं दत्तराज्येऽपि महामोहनरेश्वरे। सविशेषं करोत्येष विनयं नयपण्डितः // महामोहनरेन्द्रोऽपि सर्वेषामग्रतः स्फुटम् / अस्यैव भोः सुपुत्रस्य प्रभुत्वं ख्यापयत्यलम् // तदेवं स्नेहसंबद्धौ पितापुत्रौ परस्परम् / एतावेव वशीकत क्षमौ भद्र जगत्त्रयम् // यावविप्रतपत्येष नरेन्द्रो रागकेसरी। बहिरङ्गजने तावत्कौतस्त्यः सुखमङ्गमः / / यतोऽयं भद्र संसारसागरोदरवर्तिषु / बहिर्लोके पदार्थषु प्रौतिमुत्पादयत्यलम् // मंक्लिष्टपुण्यजन्येषु संक्लिष्टेषु स्वरूपतः / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579