Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 560 तथा हि। ज्ञायते रूपतो जातिर्जातेः शौलं शुभाशुभम् / शौलागुणः प्रभासन्ते गुणैः सत्त्वं महाधियाम् // न केवलं त्वयास्यैव दर्शनादेव लक्षिताः / गुणः किं तर्हि सर्वेषां नूनमेषां महौभुजाम् // बुद्धेर्जातस्य ते भद्र किं वा स्यादविनिश्चितम् / यत्तु मां प्रश्नयस्येवं तात मा तेऽभिजातता // प्रकर्षः प्राह यद्येवं ततो माम निवेद्यताम् / किनामिकेयं भार्यास्य मन्त्रिणो मुग्धलोचना // विमर्श: प्राह भद्रेयं भोगहष्णाभिधीयते / गुणैस्तु तुल्या विज्ञेया सर्वथास्यैव मन्त्रिणः // ये वेते पुरतः केचित्पार्श्वतः पृष्ठतोऽपरे / दृश्यन्ते भूभुजो भद्र मन्त्रिणोऽस्य नताननाः // दृष्टाभिमन्धिप्रमुखास्ते विज्ञेया महाभटाः / महामोहनरेन्द्रस्य खाङ्गभूताः पदातयः / अन्यच्च / महामोहनृपस्येष्टा रागकेसरिणो मताः / भृत्या देषगजेन्द्रस्य सर्वेऽप्येते महौभुजः // अनेन मन्त्रिणादिष्टा राज्यकार्येषु सर्वदा / एते भद्र प्रवर्तन्ते निवर्तन्ते च नान्यथा // ये केचिद्दाह्मलोकानां क्षुद्रोपद्रवकारिणः / अन्तरजा महौपालास्तेऽमौषां मध्यवर्तिनः // For Private And Personal Use Only

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579