Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 577
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 505 येऽमौषां निजवौर्यण प्रतापक्षतिकारिणः // तच्छ्रुत्वा भागिनेयोकं वचन विहितादरः। श्रवादीदौदृशं वाक्यं विमर्शो मधुराक्षरैः // विद्यन्ते बहिरङ्गेषु वत्स लोकेषु तादृशाः / एतेषां वौर्यनिर्णाशाः केवलं विरला जनाः // तथाहि / मद्भूतभावनामवतन्त्रशास्त्रा महाधियः / कृतात्मकवचा नित्यं ये तिष्ठन्ति बहिर्जनाः // अप्रमादपरास्तेषामेते सर्वेऽपि भूभुजः / महामोहादयो वत्म नोपतापस्य कारकाः // यतः। सततं भावयन्येवं निर्मलीमममानमाः / जगत्स्वरूपं ये धौराः श्रद्धासशुद्धबुद्धयः // कथम् / अनादिनिधनो घोरो दुस्तरोऽयं भवोदधिः / राधावेधोपमा लोके दुर्लभा च मनुष्यता // मूलं हि सर्वकार्याणमाशापाशनिबन्धनम् / जलबुद्धदसंकाशं दृष्टनष्टं च जीवितम् // बीभत्समशः पूर्ण कर्मजं भित्रमात्मनः / गम्यं रोगपिशाचानां शरीरं क्षणभङ्गुरम् // यौवनं च मनुष्याणां सन्ध्यारकादविभ्रमम् / चण्डवातेरिताम्भोदमालारूपाश्च सम्पदः // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 575 576 577 578 579