Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नामतो गुणसंख्याभ्यां तवाये परिकीर्तिताः // एवं च भेदिनोऽप्ये ते न परस्परभेदिनः / योगपद्येन भासन्ते भद्र तन्मुश्च विस्मयम् // न चान्यचापि कर्तव्यो विस्मयो लक्षणादिभिः / कथ्यमाने मया भेदे भो. सामान्यविशेषयोः // प्रकर्षणोदितं माम नष्टोऽयं मंशयोऽधुना / ममेष माम सन्देहः परिस्फुरति मानसे // घदुत / य एते सप्त राजान एतेषां मध्यवर्तिनः / बतीयश्च चतुर्थश्च पञ्चमः षष्ठ एव च // एते महौपाश्चत्वारो यथा व्यावर्णितास्त्वया / तथा जनस्य लक्ष्यन्ते सुन्दरेतरकारिणः // नैकान्तेनैव सर्वेषामपकारपरायणाः / एते हि बाह्यलोकानां केषांचित्सुखहेतवः // श्राद्यो राजा द्वितीयश्च यश्च पर्यन्तभूपतिः / दुःखदा एव सर्वेषां योऽप्ये ते तु देहिनाम् // ततः मपरिवारण महामोहमहीभुजा / एतैश्च इतसाराणां तेषां किं नाम जीवितम् // एवं च स्थिते / किं विद्यन्ते जनाः केचिरहिरङ्गेषु देहिषु / अमौभिन कदीन्ने ये चतुर्भिररातिभिः // किं वा न संभवन्येव तादृशा माम देहिनः / . For Private And Personal Use Only

Page Navigation
1 ... 574 575 576 577 578 579