Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / . धारभेत स्ववीर्येण बहिरङ्गमनुष्यकान् // तदा ते निहतप्राया बालिशा व किङ्कराः / बताग्रहं विमुच्यास्य जायन्ते विगतत्रपाः // वर्धयत्येष साम्राज्यमेतेषामेव भूभुजाम् / बहिरङ्गजनस्यायममात्यो दुःखदः सदा // यतः। पस्यादेशेन कुर्वन्ति पापं ते बाह्यमानुषाः / तच्च पापं कृतं तेषामिहामुत्र च दुःखदम् // निपुणो नौतिमार्गेषु गाढं निर्व्याजपौरुषः / भेदकः परचित्तानामुपायकरणे पटुः // विदिताशेषवृत्तान्तः सन्धिविग्रहकारकः। . विकल्पबहुलो लोके सचिवो नास्त्यमूदृशः // किं वात्र बहुनोकेन तावदेते नरेश्वराः / यावदेष महामन्त्री तन्त्रको राज्यमन्ततः // ततः महर्षः प्रकर्षाऽब्रवीत् / साधु माम माधु सुन्दरं निर्णेतं मामेन / न तिलतषत्रिभागमात्रयापि चलतौदं। एवंविध एवायं विषयाभिलाषो महामन्त्री नास्त्यत्र सन्दहः / तथा हि। प्राकारदर्शनादेव ते गुणा मम मानसे / प्रादावेव समारूढा येऽस्य संवर्णितास्त्वया // विमर्श: प्राह नाश्चर्य लक्षयन्ति भवादृशाः / नराणं दुष्टमात्राणां यद्गुणागुणरूपताम् // For Private And Personal Use Only

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579