Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 570
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / माय डिम्भाश्य ये केचिदन्येऽप्येवंविधा जने / अमीषां मध्यगाः सर्वे द्रष्टव्यास्ते महीभुजाम् // तदेते परिमातीता निवेद्यन्तां कथं मया / संक्षेपतः समाख्याताः खाङ्गभूताः पदातयः // प्रकर्षः प्राह ये त्वेते वेदिकादारवर्तिनः / निविष्टा भूभुजः सप्त माम मुत्कलमण्डपे // युताः मत्परिवारेण नानारूपविराजिनः। एते किंनामका ज्ञेयाः किंगण वा महौभुजः // विमर्शः प्राह भट्रेते सप्तापि वरभूभुजः / महामोहनृपस्यैव बहिर्भूताः पदातयः // तत्र च। य एष दृश्यते भद्र संयुक्रः पञ्चभिर्नरैः / ज्ञानसंवरणो नाम प्रसिद्धः म महीपतिः // अत्रैव वर्तमानोऽयं बहिःस्थं सकलं जनम् / करोत्यन्धं खवौर्यण ज्ञानोद्योतविवर्जितम् // किं च। मान्द्राज्ञानान्धकारेण यतो मोहयते जनम् / ततोऽयं शिष्टलोकेन मोह इत्यपि कौर्तितः // यस्त्वेष नवभियुक्तो मानुषैः प्रविभाव्यते / दर्शनावरणो नाम विख्यातः म महौतले // दृश्यन्ते पञ्च या नार्यस्ताः खवौर्येण सुन्दराः / करोत्येष जगत्मवें घूर्णमानगतिक्रियम् // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579