Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 571 तदेते कथितास्तात नामभिर्गुणलेशतः / सप्तापि भूभुजस्तुभ्यं समासेन मयाधुना // वौर्यवक्रव्यतामेषां विस्तरेण पुनर्यदि। वर्णयामि ततोऽत्येति तचैव मम जीवितम् // तदेवमतिगम्भीरं श्रुत्वा मातुलजल्पितम् / प्रकर्षा इष्टचित्तत्वादिदं वचनमब्रवीत् // चारू माम कृतं चारु मोचितो मोहपञ्चरात् / एतेषां वर्णनं राज्ञां कुर्वतैवमहं त्वया // केवलं कंचिदद्यापि मामं पृच्छामि संशयम् / तमाकर्य पुनर्मामो मह्यमाख्यातुमर्हति // ततो विमर्शस्तुष्टात्मा तं प्रतोदमभाषतः / पृच्छ यट्रोचते तुभ्यं भद्र विश्रब्धचेतसा // प्रकर्षः प्राह मामायं विस्मयो मम मानसे / एषु मंकीर्त्यमानेषु राजसु प्रतिभामते / / यदामून्मण्डपान्तःस्थाविरौके नायकानहम् / परिवारं न पश्यामि तदामौषां निजं निजम् // यदा विलोकयाम्युच्चैः परिवारं विशेषतः / तदा विस्फारिताक्षोऽपि नैवेचे नायकानहम् // भवता तु परीवारो नायकाश्च पृथक् पृथक् / नामतो गणतश्चैव कीर्तिता बत तत्कथम् // विमर्शनोदितं वत्स न विधेयोऽत्र विस्मयः / नेकदोभयवेत्ताच कश्चिदन्योऽपि विद्यते // For Private And Personal Use Only

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579