Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ये त्वमी पुरुषा भद्र चत्वारोऽस्य पुरः स्थिताः / एतत्मामर्थ्ययोगेन जगदम्धं करोत्ययम् // नरदयसमायुको यः पुनर्भद्र दृश्यते / म एष वेदनौयाख्यो राजा विख्यातपौरुषः // सातनामा प्रसिद्धोऽस्य जगति प्रथमो नरः / करोत्याज्ञादसन्दोहनन्दितं भुवनत्रयम् // द्वितीयः पुरुषो भद्र यस्त्वस्य प्रविलोक्यते / असातनामकः मोऽयं जगत्मन्तापकारकः // दौर्घहस्खैः ममायुक्रश्चतुर्भिडिम्भरूपकैः / विवर्तते महीपालो यस्त्वेष तव गोचरे // आयुर्नामा प्रमिद्धोऽयं सर्वेषां भद्र देहिनाम् / निजे भवे किलावस्थां कुरुते डिम्भतेजमा // द्विचत्वारिंशता युतो मानुषाणं महाबलः / यस्त्वेष दृश्यते भद्र नाममामा महीपतिः // निजमानुषवौर्यण जगदेष चराचरम् / विडम्बयति यत्तात तदाख्यातं न पार्यते // चतुर्गतिकसंसारे नरनारकरूपताम् / ये दधाना विवर्तन्ते पशदेवतया परे / एकेन्द्रियादिभेदेन नानादेहविवर्तिनः / नानाङ्गोपाङ्गसंबद्धवाः संघातकरणोद्यताः / / भिन्नसंहननाः सत्त्वा नानासंस्थानचारिणः / वर्णगन्धरसस्पर्शभेदेन विविधास्तथा // For Private And Personal Use Only

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579