Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 563
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / निविष्टानि नरेन्द्राणामुत्सङ्गादिषु लीलया // गाढं दुर्दान्तचेष्टानि चटुलानि विशेषतः / भारतकृष्णवर्णनि डिम्मरूपाणि षोडश // अमूनि नामभिर्माम गुणैश्च सुपरिस्फुटम् / अधुना वर्ण्यमानानि श्रोतुमिच्छाम्यहं त्वया // विमर्श: प्राह सर्वेषामेतेषां सूरिभिः पुरा / सामान्यतः कषायाख्या भट्र लोके प्रकाशिता // विशेषतः पुनर्भद्र यान्येतानौह वौक्षसे / महत्तमानि दुष्टानि सर्वषामग्रतस्तथा // चत्वारि गर्भरूपाणि रौद्राकाराणि भावतः। तान्यनन्तानुबन्धौनि गौतानि किल संज्ञया // अमूनि च प्रकृत्यैव मिथ्यादर्शननामकः / अयं महत्तमो भद्र खात्मभूतानि पश्यति // ततश्च बहिरङ्गानां लोकानां निजवीर्यतः / एतान्यपि प्रकुर्वन्ति मिथ्यादर्शनमकताम् // यतः। यावदेतानि जम्भन्ते डिम्मरूपाणि लीलया चित्तवृत्तिमहाटव्यां तावत्ते बाह्यमानुषाः // अनन्यचित्ताः सततमेनमेव महत्तमम् / लोकवाक्यनिराकांक्षाः मङ्गत्या पर्युपासते // अत एव च। चित्तवृत्तिमहाटव्यामुलमत्खेषु ते जनाः / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579