Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 561
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थ प्रस्तावः / 556 अनिष्टैः संप्रयुक्ताश्च तस्य स्थर्वशवर्तिनः // न लक्षयन्ति ते मूढा यथेष रिपुरुच्चकैः / अस्यादेशेन मुञ्चन्ति पाराटौः केवलं जडाः // एष शोकः किलास्माकं दुःखत्राणं करिष्यति / अयं तु वर्धयत्येव तेषां दुःखं निषेवितः // न साधयन्ति ते स्वार्थ धर्मावश्यन्ति मानवाः / प्राणैरपि वियुज्यन्ते मूळसंमौलितेक्षणः // ताडनं शिरसोऽत्यर्थं लुञ्चनं कचमन्ततः / कुट्टनं वक्षसो भूमौ लोठनं गाढविक्लवम् // तथात्मोलम्बनं रज्वा पतनं च जलाशये। दहनं वहिना शैलशिखरादात्ममोचनम् // भक्षणं कालकूटादेः शस्त्रेणात्मनिपातनम् / प्रलापनमुन्मादं च वैक्तव्यं दैन्यभाषणम् // अन्तस्तापं महाघोरं शब्दादिसुखवञ्चनम् / लभन्ते पुरुषा भद्र ये शोकवशवर्तिनः // इत्थं भूरितरं दुःखं प्राप्नुवन्तौह ते भवे / कर्मबन्ध विधायोच्चैर्यान्यमुत्र च दुर्गतौ / / तदेष बहिरङ्गानां दुःखदो भद्र देहिनाम् / किंचिल्लेशेन शोकस्ते वर्णितः पुरतो मया // अस्यापि च शरीरस्था भवस्था नाम दारुणा। विद्यते पत्निका वत्म शोकस्य ग्रहनायिका / सास्य संवर्धिका ज्ञेया तां विना नैव जीवति / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579