Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 563 बहिर्जनानां कल्याणे विरतिस्तत्र कारणम् // एतेभ्योऽपि लघीयांमि यान्येतानौह सुन्दर / वर्तन्ते गर्भरूपाणि चत्वारि तव गोचरे // तानि संज्वलनाख्यानि गौतानि मुनिपुङ्गवैः / लोलया चटुलानौत्थमुल्लमन्ति मुहुर्मुडः // एतानि सर्वपापेभ्यो विरतानामपि देहिनाम् / होलसन्ति कुर्वन्ति बाह्यानां चित्तविप्लवम् // दूषयन्ति ततो भूयः सर्वपापनिबर्हणम् / ते मातिचारा जायन्ते वीर्यणेषां बहिर्जनाः // न सुन्दराणि सर्वेषां तदेतान्यपि देहिनाम् / लघुरूपाणि दृश्यन्ते तात यद्यपि जन्तुभिः // चतुष्टयानि चत्वारि तदेतानि विशेषतः / एतेषां नामभिर्भट्र गुणेश्च कथितानि ते // प्रत्येकं यानि नामानि ये गुणाश्च विशेषतः / एतेषां तत्पुनर्भद्र को वा वर्णयितुं नमः // तस्मात्ते कथयिष्यामि विश्रब्धः कुत्रचित्युनः / प्रस्तावागतमेवेह वौर्यमेषां विशेषतः // अन्यच्च / एतेषां गर्भरूपाणां मध्येऽष्टौ परया मुदा। याटेतानि प्रनृत्यन्ते रागकेमरिणोऽग्रतः // तान्यस्मादेव जातानि रागकेसरिणः किल / अत्यन्तवल्लभान्यस्य मूढतानन्दनानि च / For Private And Personal Use Only

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579