Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 553 स एव चापपरोनृत्तरूपविक्षिप्तमानमः / अनेनैव कृतो भद्र पञ्चवक्त्रधरः किल // यो लोके जगतो व्यापी श्रूयते किस्त केशवः / अनेन कारितः सोऽपि गोपीनां पादवन्दनम् // अन्यच्च भद्र सोऽनेन सुप्रसिद्धो महेश्वरः / दापितोऽधैं शरीरस्य गौर्यै विरहकातरः // उला मितहल्लिङ्गः स एव सुरकानने / तद्भार्याक्षोभणे रक्तस्तथानेन विनाटितः // उत्पाद्य सुरते तृष्णां स एवानेन धारितः / दिव्यं वर्षसहस्रं भो रतस्थ इति गोयते // अन्येऽपि बहवो लोके मुनयो देवदानवाः / वशीकृत्य कृताः सर्वे भद्रानेनात्मकिङ्कराः // कोऽस्य लवयितुं शको नूनमाज्ञां जगत्त्रये / श्रात्मभूतं महावौर्य यस्येदं पुरुषचयम् // अयं हि प्रथमो भटू पुरुषोऽनघपौरुषः / नाम्ना विज्ञाततद्वौर्यैः पुंवेद इति गोयते // अमुख्य तात वौर्यण बहिरङ्गा मनुष्यकाः / पारदार्य प्रवर्तन्ते जायन्ते कुलदूषणः // द्वितीयः पुरुषो ह्येष स्त्रीवेद इति सूरिभिः / व्यावर्णितो महातेजा व्यालुप्तभुवनोदरः // अस्य धाम्ना पुनस्तात योषितो विगतत्रपाः / विलंध्य कुलमर्यादां रज्यन्ते परपूरुषे // 70 For Private And Personal Use Only

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579