Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / आचरन्ति च मोहेन देहे भूषणविभ्रमम् // तुष्यन्ति कामिनौलोललोचनार्धविलोकिताः / वहन्ति हृदये प्रीतिं तदालापैनोरमैः / भ्रमन्ति विकटः पादरुन्नामितशिरोधराः / रामाकटाचविक्षिप्ताः सुभगा इति गर्विताः // कुलटादृष्टिमार्गषु तच्चित्ताक्षेपलम्पटाः / निष्क्रौड़यन्ति मोहान्धा दत्तकान् कारणं विना / / इतस्तत: प्रधावन्ति दर्शयन्ति पराक्रमम् / तामां मनोनुकूलं हि ते किं किं यन्न कुर्वते // कुर्वन्ति चाटुकर्माणि भाषन्ते किङ्करा दुव / पतन्ति पादयोस्तामा जायन्ते कर्मकारकाः // महन्ते योषितां पादप्रहारान्मस्तकेन ते / मन्यमाना निजे चित्ते मोहतस्तदनुग्रहम् // आखाद्य मद्यगण्डषं योषावक्त्रसमर्पितम् / स्लेमोन्मित्रं च मन्यन्ते स्वर्गादभ्यधिकं सुखम् // ये नरा वौर्यभूयिष्ठा ललनाभिः स्वलीलया। भूक्षेपेणैव कार्यन्ते तेऽशुचेरपि मर्दनम् // तत्मङ्गमाथें दह्यन्ते सुरतेषु न तोषिणः / दूयन्ते विरहे तासां म्रियन्ते शोकविकलाः // अवधूताश्च खिद्यन्ते रुण्टन्ति च बहिष्कृताः / पररकवनारीभिः पात्यन्ते दुःखसागरे / ईर्थया च वितुद्यन्ते स्वभार्यारक्षणोद्यताः / For Private And Personal Use Only

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579