Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 8
________________ से चायं सोडूलो बालभाव एव, प्रेयुषि पितरि परलोकं परिरक्षितो मातुलेन गङ्गाधरेण च. न्द्रनाम्रो गुरोविद्यामधिगत्य विद्याभ्याससमकालमेव समुन्मिषितया कविताशक्त्याऽन्वहमेधमानः कवीन्द्रसदसि प्रतिष्ठामाससाद । अभूच्च सन्मानपात्रं सिलहरवंशसमुद्भवानां कोङ्कणनरेन्द्राणां छित्तराजप्रमृतीनां सोदराणाम् , अथ कदाचिदाहूतो लाटदेशाधीश्वरं चौलुक्यकुलाभरणं वत्सराजमुपजग्मौ । तत्र प्रणयपरिणतानन्तसङ्गतिसुखमन्वभूत् । तस्य च सभायां काव्यगोष्ठीषु विलासमात्मनः कवितायाः प्रकाशयन्नासीत् । अथ कदाचित् प्रसङ्गात् वणिक्पुत्रोपदेशापदेशेनात्मानमुपलक्षीकृत्य वत्सराजेन पठिताम्," एकैकशः प्रकीर्णैः...................................'कोऽपि परिभोगः।" (पृ. १३. प. ४) इतीमामार्यामुपश्रुत्य वत्सराजस्याशयमालक्ष्य प्रावर्तत कर्तुं काव्यनिबन्धमेकम् । कतिपयरेवाहोभिरखिलसहृदयहृदयाह्लादकं कविकुलावतंसोपलालनीयमाकलितापूर्वकथासन्दर्भ चंपूप्रबन्धमिमं व्यरचयत् । अथ यान्यासन्नात्मनो मित्राणि, चन्दनाचार्यश्श्वेताम्बरस्सूरिः, श्वेताम्बरसूरिरपरश्च विजयसिंहाचार्यः, दिगम्बराचार्यो महाकीतिः, इन्द्रनामा चापरः, तैरेतैः विलोक्यमानप्रबन्धः प्रशस्यमानगुणश्च विश्राम्यन् कियन्त्येव दिनानि यावदास्ते तावदन्तराल एवाहूतो मुम्मणिमहाराजेन कोकणाधीश्वरेण श्रावितनिजप्रबन्धस्तेन सन्मानितः परां निर्वृत्तिमवाप । __मन्ये कवीन्द्रोऽयं शोभते गजेन्द्र इव मदधारया । यदयं कविरात्मनो विभूतिं जन्मतो धनतो विद्यातश्च वर्णयन् स्वकुलकूटस्थं सौराष्ट्रदेशाधीश्वरस्य शिलादित्यस्य भ्रातरं कलादित्यं अष्टमूर्तेः कायानुगतस्य कायस्थनाम्नोऽनुचरगणस्यावतारं वर्णयन् पूज्यपदमधिरोपयति कायस्थवंशम् । विशेषतः श्लाघते च कुलपुरुषान् । प्रकाशयति चानन्यसामान्यां धनसंपत्तिमात्मनः “ विभृत्या च लाटदे. शान्तःपातिविषयाणा (पृ. प. १५२)" मित्यादिना । कल्पयति चैतत्प्रबन्धश्रवणतो बाणस्यापि शापनिवत्तिम. बाणकृतमभिनन्दनं च। अथ चान्ते वाल्मीकिप्रभातकावरत्नहार प्रथय ते वाल्मीकिप्रभृतिकविरत्नहारे ग्रथयति चास्मानमतिमनोहरेण वाणीगुणेन । कविरयं बाणमनुसरति च्छायया । शब्दमाधुर्यमर्थमाधुर्यमप्यस्य सर्वतो गरीयः । अन्यवास्योप्रेक्षणशैली । नूनमस्य कवेर्वाचि मधु क्षरति किञ्चन । अत्रोदाहियन्ते कतिचन पद्यानि निदर्शनतया । " अम्भःकणास्रशतचर्चितपत्रहस्तसंसक्तपङ्कजमुखी कुमुदोत्सवेषु । मुद्रावरुद्धमधुपध्वनितैरिवार्कशोकातुरा सरसि नीरजिनी विरौति ॥" " कमलिनी भुवनान्तरिते रवौ व्यपगतालिकलापशिरोरुहा । परिदधे विधवेव सुधाकरद्युतिवितानमिषेण सितांशुकम् ॥" अन्धत्वमाहितं मन्ये तमसा दीपकेष्वपि । अतो हस्तधृताः स्त्रीभिः सञ्चार्यन्ते गृहेष्वमी ॥ चान्द्र महो मण्डलभाजनस्थं दुग्धं यथा यामवतीमहिष्याः । वियोगिनां दृग्दहनोप्रतापै रुल्लासितं व्योमतले लुलोठ ॥ कथायासाशिस्तु-आसीत् प्रतिष्ठाननगरे राजा मलयवाहनः । तेन नागलोकाधिपतेः

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 180