Book Title: Udayasundari Katha Author(s): C D Dalal, Embar Krishnamacharya Publisher: Central Library View full book textPage 6
________________ भूमिका अस्य गद्यपद्यभूयिष्ठस्य चम्पूप्रबन्धस्य प्रणेता कविस्सोडलो नाम्ना । जन्म चास्य कायस्थवंशे । कायस्थवंशश्चाधुनाऽप्यनेकधा तत्र तत्र प्ररूढः प्रवर्तते । कविरयमात्मनोऽन्वयस्य मूलपुरुषं, भ्रातरं शिलादित्यस्य, नाम्ना कलादित्यं, श्रीकण्ठपार्श्वपरिचरस्य कायस्थसंज्ञस्य गणविशेषस्यावतारं निरूपयनारम्भे स्तौति । विशेषयति च निजवंशं “वालभो नाम कायस्थवंश (पृ.११,प.२८)" इति । यस्मात् वलभीनगर्यामासीदस्य वंशस्य कूटस्थः कलादित्यस्तस्माद्वालभ इति विशेषः । निबन्धारम्मे वंशमात्मनः प्रपञ्चयंस्तथा शिलादित्यकलादित्ययोस्संवादे “देव क्षत्रियादुत्पन्न (पृ.६,प.१२)" इत्यादि कलादित्यवचनमनुवदन व्यनक्त्यात्मनस्संभूतिं क्षत्रियान्ववाये । अयं च कविनोदाहृतस्स्वान्वयक्रमः । कूठस्थः कलादित्यः । तस्यान्वये समुदभूत् चण्डपतिः (१)तस्य सूनुः सोल्लपेयः (२) तस्य सूनुस्सूरः (३) तस्य सूनुः कविरसौ सोडलः (४)। ___ जन्मास्य कवेगुर्जरस्य दक्षिणविभागे लाटदेशे । यदयं कविरारम्भ एवमाह, “ तस्मिन्नशेषभुवनविख्यातनामनि महावंशे दलितकलिकलङ्कसंहतिरमृतमयाकारकमनीयो नर्मदाप्रवाह इव भूतिलोकमधिष्ठितो लाटदेशमासीदुमेशवंशावतीर्णस्य महात्मनश्चण्डपतेरङ्गजन्मा सोल्लपेयो नामे"(पृ. १२. प. ६) ति । तत्रैवानुपदमिदमप्याह “प्रथमतः पुत्रेषु पम्पावतीसूनुस्सोडलो नाम, स खलु स्वर्लोकशोभाविलुण्ठिनं लाटदेशमध्यासित” (पृ. १२. प. ११) इति। अथ लाटदेशे कस्मिन्नगरे ग्रामे वास्य जन्म ? इदं तु न निश्चेतुं शक्यते । परं जन्मदेश एवास्य नावासोऽभूत् । अपगते कौमारे परिसमाप्ते च विद्याभ्यासे केनापि कालयोगेनायं कोङ्कणदेशे स्थानकं नाम नगरमुपगम्यावस्थित इति विज्ञायते । इदं च कविरेव “कालपरिवर्तितावस्थितिक्रमेण च मृगमदपत्रभङ्गिमयं कोङ्कणभुवो मण्डनमिवोद्यानवनविलीनपरिसरं स्थानक नाम राजधानीनगरमागत्यावस्थित (पृ. १२. प. १४)" इति वर्णयति । इदं च स्थानकमधुना ठाणेति ख्यायते । कविरयमात्मनो वृत्तं वर्णयन् कोङ्कणदेशाधिपतेश्छित्तराजस्य नागार्जुनस्य मुम्मणिराजस्य तथा लाटदेशाधिपतेर्वत्सराजस्य च समकालिकतामात्मनो ज्ञापयति । तथा चास्य वचनम्-"संवर्गितश्छित्तराजेन संभूषितो नागार्जुनेन संमानितो मुम्मणिनरेश्वरेणेति सोदरेण क्रमोपभुक्तराज्यसंपदा राजत्रयेण प्रतिपाद्यमानः कवीन्द्रसदसि प्रतिष्ठामाससाद" (पृ. १२.प. १७) " अलङ्कारमाणिक्यं चौलुक्यवंशस्य कवीशमीश्वरं लाटदेशश्रियः, कोङ्कणेन्द्रसुहृदमुर्वीपतिं वत्सराजमनुप्रणयपरिणतानन्तसङ्गतिसुखोपभोगार्थमाहूय नीतो जगामे (पृ.१२.प.२६)" तिच। तत्रैते छित्तराजनागार्जुनमुम्मणिनरेश्वरात्रयस्सोदराः क्रमादवरजाः क्रमेण कोङ्कणदेशाधिपत्यमन्वभूवन् । एतेषु सर्वतो ज्यायांश्छित्तराजः, अष्टचत्वारिंशदुत्तरनवशततमे (९४८) शकाब्दे (1026 A. D.) नोउर (नोर) ग्रामे भूदानमेकं विधाय दानशासनं ताम्रपत्रे व्यलेखयत् । अयं च लेखः ईण्डियन् एण्टीक्वेरी इत्यस्मिन् (Indian Antiquary, Vol. 5, Page 277) प्रकाशितः । यश्चास्यावरजश्वरमो मुम्मणिमहाराजः, ब्यशीत्युत्तरनवशततमे शकाब्दे (९८२ 1060 A. D.) अम्बनाथ (मम्बरनाथ) मन्दिरं प्रतिष्ठाप्य शिलायां व्यलेखयत् । अयं च लेखः जर्नल बोफ् बाम्बे प्राच, रोयल्Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 180