Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 288
________________ त्रिषष्टिशलाकापुरुषचरिते IR४॥ तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् । सम्भव भगवान् पारयामास यत्र तत्र तदैव हि । सुरेन्द्रदत्तो विदधे पीठं स्वर्णमणीमयम् ।। ३०९ ॥ त्रिसन्ध्यं पूजयामास तत्पीठं स्वामिपादवत् । सुरेन्द्रदत्तोऽसम्पूज्य बुभुजे जातुचिन्न हि ॥३१०॥ स्थानात्ततश्च भगवान् ग्रामे द्रोणमुखे पुरे । आकरे कपटे खेटे मडम्बे पत्तने वने ।।३११ ॥ नवे नवेऽनवस्थानो विविधाभिग्रहोद्यतः । द्वाविंशतिमनुद्विग्नः सहमानः परीषहान् ॥३१२ ॥ त्रिगुप्तिः पञ्चसमितिौनभाग्निर्भयः स्थिरः । एकाग्रग्विजहार वत्सराणि चतुर्दश ॥ ३१३ ॥ तदानीं च सहस्राम्रवणे सालतरोस्तले । द्वितीयशुक्लध्यानस्थस्तस्थौ प्रतिमया प्रभुः ।। ३१४ ॥ ध्यानान्तरे तिष्ठतश्च घातिकर्मचतुष्टयम् । सम्भवस्वामिनोऽत्रुट्यच्छाखिनः शुष्कपत्रवत् ।। ३१५ ।। ततश्च कार्तिके मासि पक्षे च धवलेतरे । पञ्चम्यां च तिथौ शीतरश्मौ मृगशिरःस्थिते ॥३१६ ।। स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् । सद्भाविभूतवस्तूनां दर्शनप्रतिभूरिव ॥३१७ ॥ परमाधार्मिककृत-क्षेत्रजाऽन्योऽन्यजन्मनः । दुःखस्यान्तात्क्षणं सौख्यं तदा निरयिणामभूत् ॥३१८ ।। सुरासुरेन्द्राः सर्वेऽपि तदानीं चलितासनाः । केवलज्ञानमहिम कर्तुं तत्र समाययुः ॥३१९ ।। ततः समवसरणकृते क्षामेकयोजनाम् । ममृजुर्वायुकुमाराः सिषिचुश्च पयोमुचः ॥३२०॥ बबन्धुळन्तरास्तां च स्वर्णरत्नाश्मभिः शुभैः । पञ्चवर्णानि पुष्पाणि विकिरन्ति स्म तत्र च ।। ३२१ ।। १ चतुःशतग्रामेषु एकरम्यं ग्रामं द्रोणमुखं । २ कुनगरम् । ३ कृषीवलग्रामे । ४ धूलिप्राकारवेष्टितो ग्रामः मडंबः । ५ तिस्रः मनोवचनकायरुपाः गुप्तयः यस्य । ६ पंच ईर्यादयः समितयः यस्य । ७ वृक्षविशेषस्य । ८ केवलज्ञानं ।९ प्रतिभूः प्रतिनिधिभूतः भाषायां जामीनऽ इति ख्यातः । १० प्रकारत्रयोद्भवस्य । ११ महिमानं । १२ पृथ्वीं । * विविधदेशागत पण्यस्थानम् तच्च द्विधा जलपत्तनं स्थलपत्तनं वा । अथवा रत्नभूमि इति व्याख्या प्रज्ञप्तौ ॥-द्यमः । - नारकाणाम् । जिनस्य केवलज्ञानम् । ॥२४॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384