Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 344
________________ त्रिषष्टि शलाका पुरुषचरि ॥८०॥ 56456 इतश्च जम्बूद्वीपस्यामुष्य क्षेत्रेऽत्र भारते । पुरी वाराणसीत्यस्ति काशिदेशस्य मण्डनम् ।। १२ ।। रत्नभित्तिषु गेहेषु तस्यामुद्योतशालिषु । अष्टप्रकारपूजायां दीपो देवाग्रतो यदि ( ? था) ।। १३ ।। चैत्येषु तस्यामुद्दण्डरैदण्डोपरि चन्द्रमाः । धर्मस्यैकातपत्रस्यातपत्रश्रियमश्नुते ॥ १४ ॥ विद्याधर्यो रममाणास्तद्वप्राट्टालकोपरि । जगतीजालकटकान् विस्मृत्य सुखमासते ।। १५ ।। वासागारेषु कूजन्ति तस्यां पारापता निशि । रतिभर्तुः प्रबोधार्थमिव मङ्गलपाठकाः ।। १६ ।। सतां प्रतिष्ठाकल्पद्रुः प्रतिष्ठाभाक् सुरेन्द्रवत् । प्रतिष्ठो नाम तत्रासीन्यायनिष्ठो महीपतिः ।। १७ ।। मेरोरिव महत्त्वेनाप्रतिरुपस्य सर्वदा । तस्यैव पादच्छायायामतिष्ठदखिलं जगत् ।। १८ । श्वेतातपत्रैर्मायूरातपत्रैश्च निरन्तरैः । द्यौर्बलाकाघनाङ्केव तस्मिन् दिग्विजयिन्यभूत् ।। १९ ।। सोऽभूत्प्रत्यर्थिनां युद्धे न कदापि पराङ्मुखः । अर्थिनामिव निःसीमपुरुषव्रतभूषणः ।। २० ।। आजन्मानन्यसाहाय्यो लीलयैव महाभुजः । स सदा धारयामास लीलाकमलवन्महीम् ।। २१ ।। तस्य पृथ्वीपतेः पृथ्वी नाम पृथ्वीव जङ्गमा । सधर्मचारिण्यभवत् स्थैर्यादिगुणभाजनम् ।। २२ ।। तस्याः शीलं च रुपं च नित्यं भूषणतां ययौ । भूषणानि तु बाह्यानि भूष्यतां प्रतिपेदिरे ।। २३ ।। निसर्गनैर्मलयजुषो गुणास्तस्यामनेकशः । उत्पेदिरे ताम्रपर्णीनद्यां मुक्ताकणा इव ।। २४ ।। लावण्यसलिलं वक्त्रनेत्रपाण्यङ्घ्रिपङ्कजम् । तद्रुपमाभाच्छ्रीदेव्याः पद्महूद इवापरः ।। २५ ।। १ सुवर्णदंडोपरि । २ कामस्य । ३ अनूपमस्य । ४ शत्रूणां । ५ स्वभावेन निर्मलताभाजः | ६ लक्ष्मीदेव्याः । * पत्रमायू । तभीष । %%%%* तृतीयं पर्व पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् । जन्म । ॥ ८० ॥

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384