Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 356
________________ तृतीयं पर्व षष्ठः त्रिषष्टिशलाकापुरुषचरिते ॥१२॥ सर्गः श्रीचन्द्रप्रभजिनचरितम् । व्यापिप्रज्ञस्त्वत्प्रभावात्क्षमोऽस्मि नु तव स्तवे । दिशोऽश्नुतेऽभ्रलेशोऽपि पौरस्त्यानिलसङ्गमात् ।। ४० ।। भविना ६ष्टमात्रो वा ध्यातमात्रोऽपि वा प्रभो !। कर्मपाशच्छेदनायापूर्वशस्त्रं किमप्यसि ।। ४१ ॥ शुभानां कर्मणामद्य जगत्यभ्युदयः खलु । पङ्कजानामिवादित्ये त्वयि विश्वतमश्छिदि ।। ४२ ।। निजं फलमदत्वापि गलिष्यत्यशुभं मम । शेफालिकापुष्पमिव निशाकरकराहतम् ॥ ४३ ।। प्रव्रज्याधारि रुपं ते दूरे विश्वाभयप्रदम् । मूर्त्याऽनयापि भगवन् ! दुःखं हरसि जन्मिनाम् ।। ४४ ।। कर्माणि भवमूलानि छेतुमत्रागमः प्रभो ! । द्रुमानिवोन्मूलयितुं वने मत्तमतङ्गजः ।। ४५ ।। अलङ्कारो यथा मुक्ताहारादिर्हृदयस्य मे । बहिरेष तथान्तस्त्वं भूयास्त्रिभुवनेश्वर ! ।। ४६ ।। स्तुत्वेति प्रभुमीशानादादाय च पुरन्दरः । नीत्वा च लक्ष्मणादेवीपार्वेऽमुञ्चद्यथाविधि ।। ४७ ।। महीपतिर्महासेनोऽप्यथाकार्षीन्महोत्सवम् । अन्यत्राप्युत्सवायैव जातोऽर्हन् किं पुनर्गृहे ? ।। ४८ ।। गर्भस्थेऽस्मिन् मातुरासीच्चन्द्रपानाय दोहदः । चन्द्राभश्चैष इत्यावच्चन्द्रप्रभममुं पिता ।। ४९ ।। ज्योत्स्नागौरप्रभापूरपरिवेषमनोरमम् । वैजयन्तस्थितस्येव रुपं भर्तुः शिशोर्बभौ ॥ ५० ॥ लतानामिव धात्रीणामाकर्षन् पाणिपल्लवान् । दिने दिने कलभवद् ववृधे परमेश्वरः ।। ५१ ॥ अप्राप्तं देवभावेऽपि स्वेच्छाप्राप्तमिव प्रभुः । बालत्वमन्वभूज्ज्ञानत्रयभागपि मुग्धवत् ।। ५२ ।। नानाविधाभिः क्रीडाभिर्ललन्ये शैशवं विभुः । कथाभिरतिरम्याभिः पन्थानं पथिको यथा ।। ५३ ।। शिशुत्वसरितः पारं स्त्रीवशीकारकार्मणम् । प्रपेदे यौवनं स्वामी सार्धधन्वशतोन्नतिः ।। ५४ ।। १ स्तुतौ । २ अल्पोऽपि मेघः । ३ पूर्वदिग्वायुसंगात् । ४ विश्वस्य तमोऽज्ञानमंधकारश्च तच्छिनत्ति तस्मिन् । ५ गजबालवत् । + "दि हृद' । * महसे । जन्म। ॥९२ ।।

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384