________________
तृतीयं पर्व षष्ठः
त्रिषष्टिशलाकापुरुषचरिते ॥१२॥
सर्गः
श्रीचन्द्रप्रभजिनचरितम् ।
व्यापिप्रज्ञस्त्वत्प्रभावात्क्षमोऽस्मि नु तव स्तवे । दिशोऽश्नुतेऽभ्रलेशोऽपि पौरस्त्यानिलसङ्गमात् ।। ४० ।। भविना ६ष्टमात्रो वा ध्यातमात्रोऽपि वा प्रभो !। कर्मपाशच्छेदनायापूर्वशस्त्रं किमप्यसि ।। ४१ ॥ शुभानां कर्मणामद्य जगत्यभ्युदयः खलु । पङ्कजानामिवादित्ये त्वयि विश्वतमश्छिदि ।। ४२ ।। निजं फलमदत्वापि गलिष्यत्यशुभं मम । शेफालिकापुष्पमिव निशाकरकराहतम् ॥ ४३ ।। प्रव्रज्याधारि रुपं ते दूरे विश्वाभयप्रदम् । मूर्त्याऽनयापि भगवन् ! दुःखं हरसि जन्मिनाम् ।। ४४ ।। कर्माणि भवमूलानि छेतुमत्रागमः प्रभो ! । द्रुमानिवोन्मूलयितुं वने मत्तमतङ्गजः ।। ४५ ।। अलङ्कारो यथा मुक्ताहारादिर्हृदयस्य मे । बहिरेष तथान्तस्त्वं भूयास्त्रिभुवनेश्वर ! ।। ४६ ।। स्तुत्वेति प्रभुमीशानादादाय च पुरन्दरः । नीत्वा च लक्ष्मणादेवीपार्वेऽमुञ्चद्यथाविधि ।। ४७ ।। महीपतिर्महासेनोऽप्यथाकार्षीन्महोत्सवम् । अन्यत्राप्युत्सवायैव जातोऽर्हन् किं पुनर्गृहे ? ।। ४८ ।। गर्भस्थेऽस्मिन् मातुरासीच्चन्द्रपानाय दोहदः । चन्द्राभश्चैष इत्यावच्चन्द्रप्रभममुं पिता ।। ४९ ।। ज्योत्स्नागौरप्रभापूरपरिवेषमनोरमम् । वैजयन्तस्थितस्येव रुपं भर्तुः शिशोर्बभौ ॥ ५० ॥ लतानामिव धात्रीणामाकर्षन् पाणिपल्लवान् । दिने दिने कलभवद् ववृधे परमेश्वरः ।। ५१ ॥ अप्राप्तं देवभावेऽपि स्वेच्छाप्राप्तमिव प्रभुः । बालत्वमन्वभूज्ज्ञानत्रयभागपि मुग्धवत् ।। ५२ ।। नानाविधाभिः क्रीडाभिर्ललन्ये शैशवं विभुः । कथाभिरतिरम्याभिः पन्थानं पथिको यथा ।। ५३ ।। शिशुत्वसरितः पारं स्त्रीवशीकारकार्मणम् । प्रपेदे यौवनं स्वामी सार्धधन्वशतोन्नतिः ।। ५४ ।।
१ स्तुतौ । २ अल्पोऽपि मेघः । ३ पूर्वदिग्वायुसंगात् । ४ विश्वस्य तमोऽज्ञानमंधकारश्च तच्छिनत्ति तस्मिन् । ५ गजबालवत् । + "दि हृद' । * महसे ।
जन्म।
॥९२ ।।