________________
त्रिषष्टिशलाकापुरुषचरिते
९३॥
तृतीयं पर्व षष्ठः सर्गः श्रीचन्द्रप्रभ
जिन
चरितम् ।
दीक्षा।
विदन् भोगफलं कर्मादेशं पित्रोश्च पालयन् । जगत्पतिरुपायंस्तानुरुपा राजकन्यकाः ।। ५५ ।। पूर्वलक्षद्वये सार्धे जन्मतोऽतिगते सति । पितृभ्यामर्थितोऽत्यर्थ चतुर्विंशाङ्गसंयुताः ।।५६ ।। पूर्वलक्षास्तु षट् सार्धा अनैषीत्पालयन्महीम् । अनध्यायमिवाध्यायरतो दीक्षोत्सुकः प्रभुः ।।५७ ॥ ।।युग्मम् ॥|| आयुक्तैरिव मौहूर्तरथ लोकान्तिकामरैः । अज्ञापि दीक्षासमयं स्वयं जानन्नपि प्रभुः ।। ५८ ।। आढ्यो विव्रजिषुरिव प्रविव्रजिषुरुच्चकैः । दानं प्रदातुमारेभे स्वामी संवत्सरावधि ।। ५९ ।। संवत्सरान्ते चलितासनैरेत्य सुरेश्वरैः । दीक्षाभिषेको विदधे स्वामिनः किङ्करैरिव ।। ६० ।। ततो मनोरमां नाम शिबिकां श्रीमनोरमाम् । स्वाम्यारुरोह नृसुरासुरेन्द्रपरिवारितः ।।६१ ।। स्तूयमानो गीयमानः प्रेक्ष्यमाणो जनैर्मुदा । सहस्राम्रवणं नामोपवनं भगवानगात् ।। ६२ ।। शिबिकातः समुत्तीर्य रत्नालङ्करणादिकम् । अपि रत्नत्रयं प्रेप्सुस्तत्याज परमेश्वरः ।। ६३ ।। पौषकृष्णत्रयोदश्यां भे मैत्रेयेऽपरेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत्प्रभुः ।।६४ ।। मर्यक्षेत्रस्थितप्राणिमनोद्रव्यप्रकाशकम् । मनःपर्ययमुत्पेदे तुर्यं ज्ञानं ततः प्रभोः ।। ६५ ।। पद्मखण्डपुरे राज्ञः सोमदत्तस्य सद्मनि । पारणं परमान्नेन द्वितीयेऽह्नि प्रभुळधात् ।। ६६ ।। दिव्यं च वसुधारादिपञ्चकं विदधेऽमरैः । रत्नपीठं तेन राज्ञा त्वर्हत्पादाङ्कित्तावनौ ।। ६७ ॥ हिमान्याप्यपराभूतः पराभूतार्कतेजसा । अकम्पितः समीरैश्च कृतावश्यायदुर्दिनैः ।। ६८ ॥
१ अध्ययनपरः । २ प्रेरितैः । ३ ज्योतिर्विद्भिः । ४ नक्षत्रे । ५ पराभूतमर्कतेजो यया तया हिमान्या महद्धिमेनाप्यपराभूतः । ६ कृतमवश्यायेन हिमेन दुर्दिनं यैस्तैः । विदन् भोगफलम् इत्यादिकः अयंश्लोकः संबृ. मो. नास्ति ।। - अनाध्या । असज्जाय समय इत्यर्थः + सुरासुरैः । - "मं मुनि सह स ।
॥ ९३ ॥