________________
त्रिषष्टिशलाकापुरुषचरिते
॥९४॥
तृतीयं पर्व षष्ठः सर्गः श्रीचन्द्रप्रभ
जिन
चरितम् ।
हैमनेन निशीथेन हिमीकृतसरोम्भसा । अखण्डमानप्रतिमः प्रतिमानविवर्जितः ।। ६९ ॥ अरण्ये व्याघ्रसिंहादिदुःश्वापदभयानके । पुरे च श्राद्धबहुले निर्विशेषगतिस्थितिः ।। ७० ।। एकाकी निर्ममो मौनी निर्ग्रन्थो ध्यानतत्परः । त्रीन् मासान् विजहारोर्वी छद्मस्थः परमेश्वरः ।।७१ ॥
॥चतुर्भिः कलापकम् ।। विहरन् भगवान् भूयः सहस्राम्रवणं ययौ । तस्थौ प्रतिमया तत्र पुन्नागस्य तरोस्तले ॥७२ ।। द्वितीयशुक्लध्यानान्ते तस्थुषोऽथ जगत्पतेः । प्रणेशु_तिकर्माणि हिमवच्छिशिरात्यये ।।७३ ।। फाल्गुनासितसप्तम्यामनुराधागते विधौ । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्वलम् ।। ७४ ।। सुरासुरेन्द्राः सद्योऽपि क्षेत्रे योजनमात्रके । चक्रुः समवसरणं देशनार्थं जगद्गुरोः ।।७५ ॥ सुरैः संचार्यमाणानि स्वर्णाब्जानि नव क्रमात् । क्रमन्यासैः पुनानस्तत्प्रारद्वारा प्राविशत्प्रभुः ।।७६ ।। तत्र चाष्टादशधनुःशतोच्चं चैत्यपादपम् । प्रभुः प्रदक्षिणीचक्रे पालयन्नार्हती स्थितिम् ॥७७ ।। "तीर्थाय नम" इत्युच्चैर्वाचमुच्चारयन् प्रभुः । रत्नसिंहासने तत्र न्यषदत्पूर्वदिङ्मुखः ।।७८ ।। प्रविश्य च यथाद्वारं यथास्थानमवास्थित । चतुर्विधोऽपि श्रीसङ्घः ससुरासुरमानुषः ॥ ७९ ॥ पञ्चाङ्गस्पृष्टभूपृष्ठः प्रणम्य परमेश्वरम् । जम्मारिभक्तिरभसादारेभे स्तोतुमित्यथ ।। ८० ॥ सुरासुरनरैर्मूर्ध्नि धार्यमाणमिदं प्रभो ! शासनं ते विजयते त्रिलोकीचक्रवर्तिनः ।। ८१ ।। ज्ञानत्रयधरः पूर्व मनःपर्ययभृत्ततः । केवली चाधुना दिष्ट्या दृष्टस्त्वमधिकाधिकम् ।। ८२ ।। १ पादन्यासैः । २ इंद्रः ।
| केवलज्ञानम् ।
॥ ९४ ॥